397
शिरीषोदुम्बरौ जम्बूः सेकालेपनयोर्हिताः ॥
श्लेष्मातकत्वचो वाऽपि प्रलेपाश्चोतने हिताः ॥ १० ॥
शिरीषयष्टीनतचन्दनैलामांसीहरिद्राद्वयकुष्ठवालैः ॥
लेपो दशाङ्गः सघृतः प्रदिष्टो विसर्पकुष्ठग्रहशोषहारी ॥ ११ ॥
शिरीषोशीरनागाङ्कहिंस्राभर्लेपनाद्द्रुतम् ॥
विसर्पविषविस्फोटाः प्रशाम्यन्ति न संशयः ॥ १२ ॥
वृषखदिरपटोलपत्रनिम्बत्वगमृतामलकीकषायकल्कैः ॥
घृतमभिनवमेतदाशु पक्वं जयति विसर्पमदास्रकुष्ठगुल्मान् ॥ १३ ॥
पटोलसप्तच्छदनिम्बवासाफलत्रिकच्छिन्नरुहाविपक्वम् ॥
तत्पञ्चतिक्तं घृतमाशु हन्ति त्रिदोषविस्फोटविसर्पकण्डूः ॥ १४ ॥
शाखासु कुपितो दोषः शोथं कृत्वा विसर्पवत् ॥
भित्त्वैवं तं क्षते तत्र सोष्मा मांसं विशोष्य च ॥ १५ ॥
कुर्यात्तन्तुनिभं सूत्रं तत्पिण्डैस्तक्रसक्तुजैः ॥
शनैः शनैः क्षताद्याति च्छेदात्कोपं समावहेत् ॥ १६ ॥
तत्पाताच्छोफशान्तिः स्यात्पुनः स्थानान्तरे भवेत् ॥
स स्नायुक इति ख्यातः क्रियोक्ता तु विसर्पवत् ॥ १७ ॥