398
गव्यं सर्पिस्त्र्यहं पीत्वा निर्गुण्डीस्वरसं त्र्यहम् ॥
पीत्वा स्नायुकमत्युग्रं हन्त्यवश्यं न संशयः ॥ १८ ॥
सौभाञ्जनमूलदलैः काञ्जिकपिष्टैर्लवणयुतैर्लेषः ॥
हन्ति स्नायुकरोगं यद्वा मोचत्वचो लेपः ॥ १९ ॥

Adhikāra 56

सर्वासां वमनं पूर्वं पटोलारिष्टवासकैः ॥
कषायैश्च वचावत्सयष्ट्याह्वफलकल्कितैः ॥ १ ॥
सक्षौद्रं पाययेद्ब्राह्म्या रसं वा हैलमोचिकम् ॥
वान्तस्य रेचनं देयं शमनं चाबले नरे ॥ २ ॥
सुषवीपत्रनिर्यासं हरिद्राचूर्णसंयुतम् ॥
रोमान्ती ज्वरविस्फोटमसूरी शान्तये पिबेत् ॥ ३ ॥