400
द्विपञ्चमूलं रास्ना च दार्व्युशीरं दुरालभा ॥
सामृतं धान्यकं मुस्तं जयेद्वातसमुत्थिताम् ॥ १० ॥
द्राक्षाकाश्मर्यखर्जूरपटोलारिष्टवासकैः ॥
लाजामलकदुस्पर्शैः सितायुक्तस्तु पैत्तिके ॥ ११ ॥
शिरीषोदुम्बराश्वत्थशेलुन्यग्रोधवत्सकैः ॥
प्रलेपः सघृतः शीघ्रं व्रणवीसर्पदाहहा ॥ १२ ॥
दुरालभां पर्पटकं भूनिम्बं कटुरोहिणीम् ॥
श्लैष्मिक्यां पित्तजायां वा पाने निष्क्वाथ्य दापयेत् ॥ १३ ॥
निम्बं पर्पटकं पाठां पटोलं कटुरोहिणीम् ॥
वासां दुरालभां धात्रीमुशीरं चन्दनद्वयम् ॥ १४ ॥
एष निम्बादिकः क्वाथः पीतः शर्करयाऽन्वितः ॥
त्रिदोषां मसूरीं हन्ति ज्वरवीसर्पसंभवाम् ॥
उत्थिता प्रविशेद्या तु पुनस्तां बाह्यतो नयेत् ॥ १५ ॥
पटोलकुण्डलीमुस्तवृषधन्वयवासकैः ॥
भूनिम्बनिम्बकटुकापर्पटैश्च शृतं जलम् ॥ १६ ॥
मसूरीं शमयेदामां पक्वां चैव विशोधयेत् ॥
नातः परतरं किंचिद्विस्फोटज्वरशान्तये ॥ १७ ॥
पटोलमूलारुणतण्डुलीयकं पिबेद्धरिद्रामलकल्कसंयुतम् ॥
मसूरिविस्फोटविदाहशान्तये तथैव रोमान्तिवमिज्वरापहम् ॥ १८ ॥