Adhikāra 57

तथाऽजगल्लिकामामां जलौकोभिरुपाचरेत् ॥
शुक्तिसौराष्ट्रिकाक्षारकल्कैश्चाऽऽलेपयेन्मुहुः ॥ १ ॥
404
श्लेष्मविद्रधिकल्पेन जयेच्चानुशयां भिषक् ॥
विवृतामिन्द्रवृद्धां च गर्दभां जालगर्दभाम् ॥
इरिवेल्लां गन्धनामां जयेत्पित्तविसर्पवत् ॥ २ ॥
मधुरौषधसिद्धेन सर्पिषा शमयेद्व्रणम् ॥ ३ ॥
रक्तावसेकैर्बहुभिः स्वेदनैरपतर्पणैः ॥
जयेद्विदारिकां लेपैः शिग्रुदेवद्रुमोद्भवैः ॥ ४ ॥
पनसिकां कच्छपिकामनेन विधिना भिषक् ॥
साधयेत्कठिनानन्याञ्शोफान्दोषसमुद्भवान् ॥ ५ ॥
405
अन्ध्रालजीं कच्छपिकां तथा पाषाणगर्दभम् ॥
सुरदारुशिलाकुष्ठैः स्वेदयित्वा प्रलेपयेत् ॥ ६ ॥
कफमारुतशोथघ्नो लेपः पाषाणगर्दभे ॥
लेपनं पाण्डुरङ्गेण शोणितस्य च मोक्षणम् ॥ ७ ॥
शस्त्रेणोत्कृत्य वल्मीकं क्षाराग्निभ्यां प्रसाधयेत् ॥
मनःशिलालभल्लातसूक्ष्मैलागुरुचन्दनैः ॥ ८ ॥
जातीपल्लववक्रैश्च निम्बतैलं विपाचयेत् ॥
वल्मीकं नाशयेत्तद्धि बहुच्छिद्रं बहुस्रवम् ॥ ९ ॥
406
पाददारीषु तु शिरां व्यधयेत्तलशोधनीम् ॥
स्नेहस्वेदोपपन्नौ तु पादौ चाऽऽलेपयेन्मुहुः ॥
मधूच्छिष्टवसामज्जघृतक्षीरैर्विमिश्रितैः ॥ १० ॥
407
सर्जाह्वसिन्धूद्भवयोश्चूर्णं मधुघृतान्वितम् ॥
निर्मथ्य कटुतैलाक्तं हितं पादप्रमार्जनम् ॥ ११ ॥
उपोदकासर्षपनिम्बमोचाकर्कारुकैर्वारुकभस्मतोये ॥
तैलं विपक्वं लवणांशयुक्तं तत्पाददारीं विनिहन्ति लेपात् ॥ १२ ॥
अलसेऽम्लैश्चिरं सिक्तौ चरणौ परिलेपयेत् ॥
पटोलारिष्टकासीसत्रिफलाभिर्मुहुर्मुहुः ॥ १३ ॥
करञ्जबीजं रजनी कासीसं मधुकं मधु ॥
रोचना हरितालं च लेपोऽयमलसे हितः ॥ १४ ॥
लाक्षाभयारसालेपः कार्यं वा रक्तमोक्षणम् ॥ १५ ॥
बृहतीरससिद्धेन तैलेनाभ्यज्य बुद्धिमान् ॥
शिलारोचनकासीसचूर्णैर्वा प्रतिसारयेत् ॥ १६ ॥
दहेत्कदरमुद्धृत्य तैलेन दहनेन वा ॥
चिप्यमुष्णाम्बुना स्विन्नमुद्धृत्याभ्यञ्जनं व्रणे ॥
दत्त्वा सार्जरसं चूर्णं बद्ध्वा व्रणवदाचरेत् ॥ १७ ॥
408
स्वरसेन हरिद्रायाः पात्रे कृष्णायसेऽभयाम् ॥
घृष्ट्वा तज्जेन कल्केन लिम्पेच्चिप्यं पुनः पुनः ॥ १८ ॥
निम्बोदकेन वमनं पद्मिनीकण्टके हितम् ॥ १९ ॥
निम्बोदककृतं सर्पिः सक्षौद्रं पानमिष्यते ॥
निम्बारग्वधकल्कैर्वा मुहुरुद्वर्तनं हितम् ॥ २० ॥
अहिपूतनके धात्र्याः पूर्वं स्तन्यं विशोधयेत् ॥
त्रिफलाखदिरक्वाथैर्व्रणानां धावनं हितम् ॥ २१ ॥
करञ्जत्रिफलातिक्तैः सर्पिः सिद्धं शिशोर्हितम् ॥
रसाञ्जनं विशेषेण पानालेपनयोर्हितम् ॥ २२ ॥
गुदभ्रंशे गुदं स्नेहैरभ्यज्याऽऽशु प्रवेशयेत् ॥
प्रविष्टं स्वेदयेच्चापि बद्धं गोःफणया भृशम् ॥ २३ ॥
409
कोमलं पद्मिनीपत्रं यः खादेच्छर्करायुतम् ॥
एतन्निश्चित्य निर्दिष्टं न तस्य गुदनिर्गमः ॥ २४ ॥
वृक्षाम्लानलचाङ्गेरीविश्वपाठायवाग्रजम् ॥
तक्रेण शीलयेत्पायुभ्रंशार्तोऽनलदीपनम् ॥ २५ ॥
गुदं च गव्यवसया म्रक्षयेदविशङ्कितः ॥
दुष्प्रवेशो गुदभ्रंशो विशत्याशु न संशयः ॥ २६ ॥
मूषिकाणां वसाभिर्वा गुदे सम्यक्प्रलेपनम् ॥
सुस्विन्नमूषिकामांसेनाथवा स्वेदयेद्गुदम् ॥ २७ ॥
चाङ्गेरीकोलदध्यम्लनागरक्षारसंयुतम् ॥
घृतमुत्क्वथितं पेयं गुदभ्रंशरुजापहम् ॥ २८ ॥
क्षीरे महत्पञ्चमूलं मूषिकामन्त्रवर्जिताम् ॥
पक्त्वा तस्मिन्पचेत्तैलं वातघ्नौषधसंयुतम् ॥
गुदभ्रंशमिदं तैलं पानाभ्यङ्गात्प्रसाधयेत् ॥ २९ ॥
410
स्वेदोपनाहौ परिवर्तिकायां कृत्वा समभ्यज्य घृतेन पश्चात् ॥
प्रवेशयेच्चर्म शनैः प्रविष्टे मांसैः सुखोष्णैरुपनाहयेच्च ॥ ३० ॥
स्नेहस्वेदैस्तथैवैनां चिकित्सेदवपाटिकाम् ॥ ३१ ॥
चर्मकीलाञ्जतुमणीन्मशकांस्तिलकालकान् ॥
उत्कृत्य शस्त्रेण दहेत्क्षाराग्निभ्यामशेषतः ॥ ३२ ॥
यौवनपिटकान्यच्छनीलिकाव्यङ्गशर्कराः ॥
शिरावेधैः प्रलेपैश्च जयेदभ्यञ्जनैस्तथा ॥ ३३ ॥
लोध्रधान्यवचालेपस्तारुण्यपिटिकापहः ॥
तद्वद्गोरोचनायुक्तं मरिचं मुखलेपनात् ॥ ३४ ॥
सिद्धार्थकवचालोध्रसैन्धवैश्च प्रलेपनम् ॥
वमनं च निहन्त्याशु पिटकान्यौवनोद्भवान् ॥ ३५ ॥
411
व्यङ्गेषु चार्जुनत्वग्वा मञ्जिष्ठा वा समाक्षिका ॥
लेपः सनवनीतो वा श्वेताश्वखुरजा मषी ॥ ३६ ॥
रक्तचन्दनमञ्जिष्ठाकुष्ठलोध्रप्रियंगवः ॥
वटाङ्कुरा मसूराश्च व्यङ्गघ्ना मुखकान्तिदाः ॥ ३७ ॥
व्यङ्गानां लेपनं शस्तं रुधिरेण शशस्य वा ॥
केवलान्पयसा पिष्ट्वा तीक्ष्णाञ्शाल्मलिकण्टकान् ॥
आलिप्तं त्र्यहमेतेन भवेत्पद्मोपमं मुखम् ॥ ३८ ॥
मसूरैः सर्पिषा पिष्टैर्लिप्तमास्यं पयोन्वितैः ॥
सप्तरात्रेण भवति पुण्डरीकदलप्रभम् ॥ ३९ ॥
मातुलुङ्गजटा सर्पिः शिला गोशकृतो रसः ॥
मुखकान्तिकरो लेपः पिटिकातिलकालजित् ॥ ४० ॥
कालीयकोत्पलामयदधिसरबदरास्थिमध्यफलिनीभिः ॥
लिप्तं भवति हि वदनं शशिप्रभं सप्तरात्रेण ॥ ४१ ॥
रक्षोघ्नशर्वरीद्वयमञ्जिष्ठागैरिकाज्यबस्तपयः ॥
सिद्धेन लिप्तमाननमुद्यच्छरदिन्दुबिम्बवद्भाति ॥ ४२ ॥
परिणतदधिशरपुङ्खैः कुवलयदलकुष्ठचन्दनोशीरैः ॥
मुखकमलकान्तिकरैर्भृकुटीतिलकालकाञ्जयति ॥ ४३ ॥
हरिद्राद्वययष्ट्याह्वकालीयककुचन्दनैः ॥
प्रपौण्डरीकमञ्जिष्ठापद्मपद्मककुङ्कुमैः ॥ ४४ ॥
412
कपित्थतिन्दुकप्लक्षवटपत्रैः पयोन्वितैः ॥
लेपयेत्कल्कितैरेभिस्तैलं वाऽभ्यञ्जनं पचेत् ॥ ४५ ॥
पिप्लवं नीलिकां व्यङ्गं तिलकान्मुखदूषकान् ॥
नित्यसेवी जयेत्क्षिप्रं मुखं कुर्यान्मनोहरम् ॥ ४६ ॥
मधुकस्य कषायेण तैलस्य कुडवं पचेत् ॥
कल्कैः प्रियंगुमञ्जिष्ठाचन्दनोत्पलकेसरैः ॥ ४७ ॥
कनकं नामतस्तैलं मुखकान्तिकरं परम् ॥
अभीलुनीलिकाव्यङ्गशोधनं परमार्चितम् ॥ ४८ ॥
मञ्जिष्ठा मधुकं लाक्षा मातुलुङ्गं सयष्टिकम् ॥
कर्षप्रमाणैरेतैस्तु तैलस्य कुडवं तथा ॥ ४९ ॥
आजं पयस्तु द्विगुणं शनैर्मृद्वग्निना पचेत् ॥
नीलिकापिटिकाव्यङ्गानभ्यङ्गादेव नाशयेत् ॥ ५० ॥
मुखं प्रसन्नोपचितं नीलीकर्कशवर्जितम् ॥
सप्तरात्रप्रयोगेण भवेत्कनकसंनिभम् ॥ ५१ ॥
कुङ्कुमं चन्दनं लाक्षा मञ्जिष्ठा मधुयष्टिका ॥
कालीयकमुशीरं च पद्मकं नीलमुत्पलम् ॥ ५२ ॥
न्यग्रोधपादाः प्लक्षस्य शुङ्गाः पद्मस्य केसरम् ॥
द्विपञ्चमूलसहितैः कषायैः पालिकैः पृथक् ॥ ५३ ॥
जलाढकं विपक्तव्यं पादशेषमथोद्धरेत् ॥
मञ्जिष्ठा मधुकं लाक्षा पत्त(त्रा)ङ्गं मधुयष्टिका ॥ ५४ ॥
कर्षप्रमाणैरेतैस्तु तैलस्य कुडवं पचेत् ॥
अजाक्षीरं तद्द्विगुणं शनैर्मृद्वग्निना पचेत् ॥ ५५ ॥
सम्यक्पक्वं परं ह्येतन्मुखवर्णप्रसादनम् ॥
413
नीलिकापिटिकाव्यङ्गानभ्यङ्गादेव नाशयेत् ॥ ५६ ॥
सप्तरात्रेण वदनं भवेत्कमलसंनिभम् ॥
कुङ्कुमाद्यमिदं तैलं श्रेष्ठं वैदेहनिर्मितम् ॥ ५७ ॥
अरूंषिकायां रुधिरेऽवसिक्ते शिराव्यधेनाथ जलौकसा वा ॥
निम्बाम्बुसिक्ते शिरसि प्रलेपो देयोऽश्ववर्चोरससैन्धवाभ्याम् ॥ ५८ ॥
पुराणमथ पिण्याकं पुरीषं कुक्कुटस्य च ॥
मूत्रपिष्टः प्रलेपोऽयं शीघ्रं हन्यादरूंषिकाम् ॥ ५९ ॥
हरिद्राद्वयभूनिम्बत्रिफलारिष्टचन्दनैः ॥
एतत्तैलमरूंषीणां सिद्धमभ्यञ्जने हितम् ॥ ६० ॥
दारुणे तु शिरां विध्येत्स्निग्धस्विन्नां ललाटजाम् ॥
अवपीडशिरोबस्तीनभ्यङ्गांश्चावचारयेत् ॥ ६१ ॥
कोद्रवाणां तृणक्षारपानीयं परिधावने ॥ ६२ ॥
प्रियालबीजमधुककुष्ठमिश्रैः ससैन्धवैः ॥
कार्यो दारुणके मूर्ध्नि प्रलेपो मधुसंयुतः ॥ ६३ ॥
414
मालतीकरवीराग्निनक्तमालैर्विपाचितम् ॥
तैलमभ्यञ्जने शस्तमिन्द्रलुप्तापहं परम् ॥
इदं हि त्वरितं हन्ति दारुणं नियतं नृणाम् ॥ ६४ ॥
स्नुहीपयः पयोऽर्कस्य मार्कवो लाङ्गलीविषम् ॥
मूत्रमाजं सगोमूत्रं रक्तिका सेन्द्रवारुणी ॥ ६५ ॥
सिद्धार्थतीक्ष्णतैलं च गर्भं दत्त्वा विपाचयेत् ॥
वह्निना मृदुना पक्वं तैलं खालित्यनाशनम् ॥ ६६ ॥
कूर्मपृष्ठसमानाऽपि रूहा या रोमतस्करी ॥
दिग्धा साऽनेन जायेत ऋक्षशावीव लोमशा ॥ ६७ ॥
त्रिफलायोरजोमांसीमार्कवोत्पलसारिवैः ॥
ससैन्धवैः पचेत्तैलमभ्यङ्गोऽरूंषिकां जयेत् ॥ ६८ ॥
चित्रकं दन्तिमूलं च कोशातकिसमन्वितम् ॥
कल्कं पिष्ट्वा पचेत्तैलं केशशत्रुविनाशनम् ॥ ६९ ॥
गुञ्जाफलैः शृतं तैलं भृङ्गराजरसेन तु ॥
कण्डूदारुणहृत्कष्टकपालव्याधिनाशनम् ॥ ७० ॥
भृङ्गरजस्त्रिफलोत्पलसारिलोहपुरीषसमन्वितकारि ॥
तैलमिदं पच दारुणहारि कुञ्चितकेशघनस्थिरकारि ॥ ७१ ॥
415
प्रपौण्डरीकमधुकपिप्पलीचन्दनोत्पलैः ॥
कार्षिकैस्तैलकुडवैस्तद्द्विरामलकीरसः ॥ ७२ ॥
साध्यः स प्रतिमर्शः स्यात्सर्वशीर्षगदापहः ॥ ७३ ॥
इन्द्रलुप्ते शिरां विद्ध्वा शिलाकासीसतुत्थकैः ॥
लेपयेत्परितः कल्कैस्तैलं चाभ्यञ्जने हितम् ॥
कुटन्नटशिखीजातीकरञ्जकरवीरकैः ॥ ७४ ॥
अवगाढपदं वाऽपि प्रस्थयित्वा पुनः पुनः ॥
गुञ्जामूलैश्चिरं लिम्पेत्केशभूमिं समन्ततः ॥ ७५ ॥
इन्द्रलुप्तापहो लेपो मधुना बृहतीरसः ॥ ७६ ॥
बृहतीफलरसपिष्टं गुञ्जाफलमूलमिन्द्रलुप्तस्य ॥
कनकविघृष्टस्य सतो दातव्यं प्रस्थितस्य सदा ॥ ७७ ॥
मधुकेन्दीवरमूर्वातिलाज्यगोक्षीरभृङ्गलेपेन ॥
अचिराद्भवन्ति केशा घनदृढमूलायता ऋजवः ॥ ७८ ॥
416
वटावरोहकेशिन्योश्चूर्णेनाऽऽदित्यपाचितम् ॥
गुडूचीस्वरसे तैलमभ्यङ्गात्केशरोहणम् ॥ ७९ ॥
चन्दनं मधुकं मूर्वा त्रिफला नीलमुत्पलम् ॥
कान्ता वटावरोहश्च गुडूची बिसमेव च ॥ ८० ॥
लोहचूर्णं तथा केशी सारिवे द्वे तथैव च ॥
मार्कवस्वरसेनैव तैलं मृद्वग्निना पचेत् ॥ ८१ ॥
शिरस्युत्पतिताः केशा जायन्ते घनकुञ्चिताः ॥
दृढमूलाश्च स्निग्धाश्च तथा भ्रमरसंनिभाः ॥
नस्येनाकालपलितं निहन्यात्तैलमुत्तमम् ॥ ८२ ॥
तैलं सयष्टीमधुकैः क्षीरे धात्रीफलैः शृतम् ॥
नस्ये दत्तं जनयति केशाञ्श्मश्रूणि वाऽप्यथ ॥ ८३ ॥
हस्तिदन्तमषीं कृत्वा मुख्यं चैव रसाञ्जनम् ॥
रोमाण्यनेन जायन्ते लेपात्पाणितलेष्वपि ॥ ८४ ॥
417
त्रिफला नीलिनीपत्रं लोहभृङ्गरजः समम् ॥
अविमूत्रेण संयुक्तं कृष्णीकरणमुत्तमम् ॥ ८५ ॥
त्रिफलाचूर्णसंयुक्तं लोहचूर्णं विनिक्षिपेत् ॥ ८६ ॥
ईषत्पक्वे नालिकेरे भृङ्गराजरसान्विते ॥
मासमेकं विनिक्षिप्य सम्यग्गर्भात्तदुद्धरेत् ॥ ८७ ॥
ततः शिरो मुण्डयित्वा लेपं दत्त्वा भिषग्वरः ॥
संवेष्ट्य कदलीपत्रैर्मोचयेत्सप्तमे दिने ॥ ८८ ॥
क्षालयेत्त्रिफलाक्वाथैः क्षीरमांसरसाशिनः ॥
कपालरञ्जनं चैतत्कृष्णीकरणमुत्तमम् ॥ ८९ ॥
उत्पलं पयसा सार्धं मासं भूमौ निधापयेत् ॥
केशानां कृष्णकरणं स्नेहनं च विधीयते ॥ ९० ॥
लोहमलामलकल्कैः सजपापुष्पैर्नरः सदास्नायी ॥
पलितानीह न पश्यति गङ्गास्नायीव नरकाणि ॥ ९१ ॥
निम्बस्य बीजानि विभावितानि भृङ्गस्य तोयेन तथाऽसनस्य ॥
तैलं तु तेषां विनिहन्ति नस्यं दुग्धान्नभोक्तुः पलितं समूलम् ॥ ९२ ॥
418
निम्बस्य तैलं प्रकृतिस्थमेव नस्यं विधेयं विधिना यथावत् ॥
मासेन तु क्षीरभुजो नरस्य जराग्रदूतं पलितं निहन्ति ॥ ९३ ॥
क्षीरात्समार्कवरसाद्द्वे प्रस्थे मधुकात्पले ॥
तैलस्य कुडवं पक्वं तन्नस्यं पलितापहम् ॥ ९४ ॥
कासीसरोचनातुत्थहरितालरसाञ्जनैः ॥
अम्लपिष्टैः प्रलेपोऽयं मुष्ककच्छ्वहिपूतयोः ॥ ९५ ॥
पटोलपत्रत्रिफलारसाञ्जनविपाचितम् ॥
पीतं घृतं नाशयति कृच्छ्रामप्यहिपूतनाम् ॥ ९६ ॥
रजनीमार्कवमूलं पिष्टं शीतेन वारिणा तुल्यम् ॥
हन्ति विसर्पं लेपाद्वराहदशनाह्वयं घोरम् ॥ ९७ ॥