416
वटावरोहकेशिन्योश्चूर्णेनाऽऽदित्यपाचितम् ॥
गुडूचीस्वरसे तैलमभ्यङ्गात्केशरोहणम् ॥ ७९ ॥
चन्दनं मधुकं मूर्वा त्रिफला नीलमुत्पलम् ॥
कान्ता वटावरोहश्च गुडूची बिसमेव च ॥ ८० ॥
लोहचूर्णं तथा केशी सारिवे द्वे तथैव च ॥
मार्कवस्वरसेनैव तैलं मृद्वग्निना पचेत् ॥ ८१ ॥
शिरस्युत्पतिताः केशा जायन्ते घनकुञ्चिताः ॥
दृढमूलाश्च स्निग्धाश्च तथा भ्रमरसंनिभाः ॥
नस्येनाकालपलितं निहन्यात्तैलमुत्तमम् ॥ ८२ ॥
तैलं सयष्टीमधुकैः क्षीरे धात्रीफलैः शृतम् ॥
नस्ये दत्तं जनयति केशाञ्श्मश्रूणि वाऽप्यथ ॥ ८३ ॥
हस्तिदन्तमषीं कृत्वा मुख्यं चैव रसाञ्जनम् ॥
रोमाण्यनेन जायन्ते लेपात्पाणितलेष्वपि ॥ ८४ ॥