417
त्रिफला नीलिनीपत्रं लोहभृङ्गरजः समम् ॥
अविमूत्रेण संयुक्तं कृष्णीकरणमुत्तमम् ॥ ८५ ॥
त्रिफलाचूर्णसंयुक्तं लोहचूर्णं विनिक्षिपेत् ॥ ८६ ॥
ईषत्पक्वे नालिकेरे भृङ्गराजरसान्विते ॥
मासमेकं विनिक्षिप्य सम्यग्गर्भात्तदुद्धरेत् ॥ ८७ ॥
ततः शिरो मुण्डयित्वा लेपं दत्त्वा भिषग्वरः ॥
संवेष्ट्य कदलीपत्रैर्मोचयेत्सप्तमे दिने ॥ ८८ ॥
क्षालयेत्त्रिफलाक्वाथैः क्षीरमांसरसाशिनः ॥
कपालरञ्जनं चैतत्कृष्णीकरणमुत्तमम् ॥ ८९ ॥
उत्पलं पयसा सार्धं मासं भूमौ निधापयेत् ॥
केशानां कृष्णकरणं स्नेहनं च विधीयते ॥ ९० ॥
लोहमलामलकल्कैः सजपापुष्पैर्नरः सदास्नायी ॥
पलितानीह न पश्यति गङ्गास्नायीव नरकाणि ॥ ९१ ॥
निम्बस्य बीजानि विभावितानि भृङ्गस्य तोयेन तथाऽसनस्य ॥
तैलं तु तेषां विनिहन्ति नस्यं दुग्धान्नभोक्तुः पलितं समूलम् ॥ ९२ ॥