435
कुर्युर्मुखे सुरभितां पटुतां रुचिं च
स्थैर्यं परं दशनगं रसनालघुत्वम् ॥ १०६ ॥

Adhikāra 59

कपित्थमातुलुङ्गाम्लशृङ्गवेररसैः शुभैः ॥
सुखोष्णैः पूरयेत्कर्णं कर्णशूलोपशान्तये ॥ १ ॥
शृङ्गवेररसः क्षौद्रं सैन्धवं तैलमेव च ॥
कदुष्णं कर्णयोर्देयमेतद्वा वेदनापहम् ॥ २ ॥
लशुनार्द्रकशिग्रूणां मुरङ्ग्या मूलकस्य च ॥
कदल्याः स्वरसः श्रेष्ठः कदुष्णः कर्णपूरणे ॥
समुद्रफेनचूर्णेन युक्त्या वाऽप्यवचूर्णयेत् ॥ ३ ॥