443
शतावरीवाजिगन्धापयस्यैरण्डबीजकैः ॥
तैलं विपक्वं सक्षीरं पालीनां पुष्टिकृत्परम् ॥ ४९ ॥
कल्केन जीवनीयेन तैलं पयसि पाचितम् ॥
आनूपमांसक्वाथेन पालिपोषणवर्धनम् ॥ ५० ॥

Adhikāra 60

पञ्चमूलीशृतं क्षीरं स्याच्चित्रकहरीतकी ॥
सर्पिर्गुडः षडङ्गश्च यूषः पीनसशान्तये ॥ १ ॥
व्योषचित्रकतालीसतिन्तिडीकाम्लवेतसम् ॥
सचव्याजाजितुल्यांशमेलात्वक्पत्रपादिकम् ॥ २ ॥
व्योषादिकमिदं चूर्णं पुराणगुडसंयुतम् ॥
पीनसश्वासकासघ्नं रुचिस्वरकरं परम् ॥ ३ ॥
पाठाद्विरजनीमूर्वापिप्पलीजातिपल्लवैः ॥
दन्त्या च तैलं संसिद्धं नस्यं पीनसशान्तये ॥ ४ ॥