447
शेषाणां तु विकाराणां स्वं स्वं कार्यं चिकित्सितम् ॥ २४ ॥
रक्तकरवीरपुष्पं जात्याऽसनमल्लिकायाश्च ॥
एतैः समं तु तैलं नासार्शोनाशनं श्रेष्ठम् ॥ २५ ॥
चित्रकस्याऽऽमलक्याश्च गुडूच्या दशमूलजम् ॥
शतं शतं रसं दत्त्वा पथ्याचूर्णाढकं गुडात् ॥ २६ ॥
शतं पचेद्धनीभूते पलद्वादशकं क्षिपेत् ॥
व्योषत्रिजातयोः क्षारात्पलार्धमपरेऽहनि ॥ २७ ॥
प्रस्थार्धं मधुनो दत्त्वा यथाग्नि प्राशयेदथ ॥
वृद्धयेऽग्नेः क्षयं कासं पीनसं दुस्तरं कृमीन् ॥
गुल्मोदावर्तदुर्नामश्वासान्हन्ति रसायनम् ॥ २८ ॥
गृहधूमकणादारुक्षारनक्ताह्वसैन्धवैः ॥
सिद्धं शिखरिबीजैश्च तैलं नासार्शसां हितम् ॥ २९ ॥

Adhikāra 61