492
सूर्यावर्ते हितं यच्च शङ्खके स्वेदवर्जितम् ॥
क्षीरसर्पिः प्रशंसन्ति नस्ये पाने च शङ्खके ॥ ४६ ॥
शतावरीं कृष्णतिलान्मधुकं नीलमुत्पलम् ॥
दूर्वां पुनर्नवां चापि लेपं साध्ववचारयेत् ॥ ४७ ॥
शीततोयावसेकांश्च क्षीरसेकांश्च शीतलान् ॥
कल्कैश्च क्षीरिवृक्षाणां शङ्खकस्य प्रलेपनम् ॥ ४८ ॥
क्रौञ्चकादम्बहंसानां शरार्याः कच्छपस्य च ॥
रसैः संबृंहितस्याथ तस्य शङ्खस्य संधिजाः ॥
ऊर्ध्वं तिस्रः शिराः प्राज्ञो भिन्द्यादेव न ताडयेत् ॥ ४९ ॥
यष्टीमधुबलारास्नादशमूलाम्बुसाधितम् ॥
मधुरैश्च घृतं सिद्धमूर्ध्वजत्रुगदापहम् ॥ ५० ॥
दशमूलबलारास्नामधुकैस्त्रिफलैः सह ॥
मयूरं पक्षपित्तान्त्रशकृत्पादास्यवर्जितम् ॥ ५१ ॥
जले पक्त्वा घृतप्रस्थं तस्मिन्क्षीरसमं पचेत् ॥
मधुरैः कार्षिकैः कल्कैः शिरोरोगार्दितापहम् ॥ ५२ ॥
कर्णनासाक्षिजिह्वास्यगलरोगविनाशनम् ॥
मयूराद्यमिदं ख्यातमूर्ध्वजत्रुगदापहम् ॥ ५३ ॥