493
प्रपौण्डरीकमधुकपिप्पलीचन्दनोत्पलैः ॥ ५४ ॥
सिद्धं धात्रीरसे तैलं नस्येनाभ्यञ्जनेन वा ॥
सर्वानूर्ध्वगदान्हन्ति पलितानि च शीलितम् ॥ ५५ ॥

Adhikāra 63

दध्ना सौवर्चलाजाजीमधुकं नीलमुत्पलम् ॥
पिबेत्क्षौद्रयुतं नारी वातासृग्दरपीडिता ॥ १ ॥
पिबेदैणेयकं रक्तं शर्करामधुसंयुतम् ॥
वासकस्वरसं पैत्ते गुडूच्या रसमेव च ॥ २ ॥
रोहीतकान्मूलकल्कं पाण्डुरेऽसृग्दरे पिबेत् ॥
जलेनाऽऽमलकाद्बीजकल्कं वा ससितामधु ॥ ३ ॥
धातक्याश्चाक्षमात्रं वा आमलक्यां मधुद्रवम् ॥
काकजान्धकमूलं वा मूलं कार्षासमेव वा ॥
पाण्डुप्रदरशान्त्यर्थं पिबेत्तण्डुलवारिणा ॥ ४ ॥