491
जाङ्गलानि च मांसानि कारयेदुपनाहनम् ॥
तेनास्य शाम्यते व्याधिः सूर्यावर्तः सुदारुणः ॥ ३९ ॥
महौषधं सस्वरसं वचापिप्पलिभिः कृतम् ॥
अवपीडं प्रदातव्यं सूर्यावर्तनिषूदनम् ॥
एष एव विधिः कृत्स्नः कार्यश्चार्धावभेदके ॥ ४० ॥
सारिवोत्पलकुष्ठानि मधुकं चाम्लपेषितम् ॥
सर्पिस्तैलयुतो लेपः सूर्यावर्तार्धभेदयोः ॥ ४१ ॥
एष एव प्रयोक्तव्यः शिरोरोगे कफात्मके ॥ ४२ ॥
पिबेत्सशर्करं क्षीरं नीरं वा नालिकेरजम् ॥
सुशीतं वाऽपि पानीयं सर्पिर्वा नस्ततस्त(नासया त)योः ॥ ४३ ॥
अनन्तवाते कर्तव्यः सूर्यावर्तहितो विधिः ॥
शिरावेधश्च कर्तव्योऽनन्तवातप्रशान्तये ॥ ४४ ॥
आहारश्च विधातव्यो वातपित्तविनाशनः ॥
मधुमस्तकसंयावहविष्पूरैश्च यः क्रमः ॥ ४५ ॥