494
अशोकवल्कलक्वाथशृतं दुग्धं सुशीतलम् ॥
यथाबलं पिबेत्प्रातस्तीव्रासृग्दरनाशनम् ॥ ५ ॥
दार्वीरसाञ्जनकिरातवृषाब्दतिक्ता-
भल्लातकारविकृतो मधुना कषायः ॥
पीतो जयत्यतिबलं प्रदरं सशूलं
पीतासितारुणविलोहितनीलशुक्लम् ॥ ६ ॥
रसाञ्जनं तण्डुलकस्य मूलं क्षौद्रान्वितं तण्डुलतोयपीतम् ॥
असृग्दरं सर्वभवं निहन्ति श्वासं च भार्गी सह नागरेण ॥ ७ ॥
कुशमूलं समाहृत्य पेषयेत्तण्डुलाम्बुना ॥
एतत्पीत्वा त्र्यहं नारी प्रदरात्परिमुच्यते ॥ ८ ॥
क्षौद्रयुक्तं फलरसं काष्ठोदुम्बरजं पिबेत् ॥
असृग्दरविनाशाय सशर्करपयोन्नभुक् ॥ ९ ॥