497
अहन्यहनि च स्त्रीणां भवति प्रीतिवर्धनम् ॥
शीतकल्याणकं नाम परमुक्तं रसायनम् ॥ ३३ ॥
हितश्चात्र विशेषेण लेहो यः कुटजाष्टकः ॥ ३४ ॥

Adhikāra 64

योनिव्यापत्सु भूयिष्ठं शस्यते कर्म वातजित् ॥
बस्त्यभ्यङ्गपरीषेकप्रलेपपिचुधारणम् ॥ १ ॥
वचोपकुञ्चिकाजाजीकृष्णावृषकसैन्धवम् ॥
अजमोदायवक्षारचित्रकं शर्करान्वितम् ॥ २ ॥
पिष्ट्वा प्रसन्नयाऽऽलोड्य खादेत्तद्घृतभर्जितम् ॥
योनिपार्श्वार्तिहृद्रोगगुल्मार्शोविनिवृत्तये ॥ ३ ॥
रास्नाश्वदंष्ट्रावृषकैः शृतं शूलहरं पयः ॥
गुडूचीत्रिफलादन्तीक्वाथैश्च परिषेचनम् ॥ ४ ॥
नतवार्ताकिनीकुष्ठसैन्धवामरदारुभिः ॥
तैलात्प्रसाधिताद्धार्यः पिचुर्योनौ रुजापहः ॥ ५ ॥