499
योनिदोषे रजोदोषे गर्भस्रावे च शस्यते ॥
प्रजावर्धनमायुष्यं सर्वग्रहनिवारणम् ॥ १६ ॥
नाम्ना फलघृतं चैतदश्विभ्यां परिकीर्तितम् ॥
अनुक्तं लक्ष्मणामूलं क्षिपन्त्यत्र चिकित्सकाः ॥ १७ ॥
कुष्ठं मुस्तं हरिद्रे द्वे पिप्पली कटुरोहिणी ॥
काकोली क्षीरकाकोली विशाला त्रिफलोत्पलम् ॥
मेदारास्नाविडङ्गानि देवदारु सहिङ्गुकम् ॥ १८ ॥
द्वे सारिवे शताह्वा च वचा यष्टी प्रियंगुका ॥
अजमोदा महामेदा चन्दनं रक्तचन्दनम् ॥ १९ ॥
जातीपुष्पं तुगाक्षीरी कट्फलं सितशर्करा ॥
एतैरक्षसमैः कल्कैर्घृतप्रस्थं भिषक्तमः ॥ २० ॥
चतुर्गुणेन पयसा विपचेद्गोमयाग्निना ॥
शुभेऽह्नि पुष्यसंयुक्ते भाण्डे ताम्रमये दृढे ॥ २१ ॥
कलशे हेमकल्याणे कृतकौतुकमङ्गले ॥
सर्पिरेतन्नरः पीत्वा स्त्रीषु नित्यं वृषायते ॥ २२ ॥
या च वन्ध्या भवेन्नारी या च कन्याप्रजायिनी(न्यां प्रसूयते) ॥
या च वाऽस्थिरगर्भा स्याद्या च सूत्वा पुनः स्थिता ॥ २३ ॥
अल्पायुषं च जनयेद्या वा जनयते मृतम् ॥
तादृशं जनयेत्पुत्रं वेदवेदाङ्गपारगम् ॥ २४ ॥
रूपलावण्यसंपन्नं शतायुं विगतज्वरम् ॥
नाम्ना फलघृतं ह्येतद्भारद्वाजेन निर्मितम् ॥ २५ ॥
सिद्धार्थकं वचां ब्राह्मीं शङ्खपुष्पीं विषाणिकाम् ॥
पयस्यां मधुकं कुष्ठं तथा कटुकरोहिणीम् ॥ २६ ॥