Adhikāra 66
कुष्ठं वचाऽभया ब्राह्मी कनकं क्षौद्रसर्पिषा ॥
वर्णायुष्कान्तिजननं लेहं बालस्य दापयेत् ॥
स्तन्याभावे पयश्छागं गव्यं वा तद्गुणं पिबेत् ॥ १ ॥
मृत्पिण्डेनाग्नितप्तेन क्षीरसिक्तेन सोष्मणा ॥
स्वेदयेदुच्छ्रितां नाभिं शोफस्तेनोपशाम्यति ॥ २ ॥
नाभिपाके निशालोध्रप्रियङ्गुमधुकैः शृतम् ॥
तैलमभ्यञ्जने शस्तमेभिर्वाऽप्यवचूर्णितम् ॥ ३ ॥
हरिद्राद्वययष्ट्याह्वसिंहीशक्रयवैः कृतः ॥
शिशोर्ज्वरातिसारघ्नः कषायः स्तन्यदोषजित् ॥ ४ ॥
घनकृष्णारुणाशृङ्गीचूर्णं क्षौद्रेण संयुतम् ॥
शिशोर्ज्वरातिसारघ्नं कासश्वासवमीहरम् ॥ ५ ॥
धातकीबिल्वधान्याकलोध्रेन्द्रयववालकैः ॥
लेहः क्षौद्रेण बालानां ज्वरातीसारवान्तिनुत् ॥ ६ ॥
रजनीदारुसरलश्रेयसीबृहतीद्वयम् ॥
पृश्निपर्णी शताह्वा च लीढं माक्षिकसर्पिषा ॥ ७ ॥
ग्रहणीदीपनं हन्ति मारुतार्ति सकामलाम् ॥
ज्वरातीसारपाण्डुत्वं बालानां सर्वरोगजित् ॥ ८ ॥
मिशिकृष्णाञ्जनैर्लाजशृङ्गीमरिचमाक्षिकैः ॥
लेहः शिशोर्विधातव्यश्छर्दिकासज्वरापहः ॥ ९ ॥
शृङ्गी समुस्तातिविषां विचूर्ण्य लेहं विदध्यान्मधुना शिशूनाम् ॥
कासज्वरच्छर्दिभिरर्दितानां समाक्षिकां वाऽतिविषामथैकाम् ॥ १० ॥
आम्रास्थिलाजसिन्धूत्थैर्लेहः क्षौद्रेण च्छर्दिनुत् ॥ ११ ॥
पीतं पीतं वमेद्यस्तु स्तन्यं तं मधुसर्पिषा ॥
द्विवार्ताकीफलरसं पञ्चकोलं च लेहयेत् ॥ १२ ॥
एकद्वित्राणि घस्राणि वातपित्तकफज्वरे ॥
क्षीरपस्याहितं सर्पिरन्ययोर्मध्यदेहवत् ॥ १३ ॥
बिल्वं च पुष्पाणि च धातकीनां जलं सलोध्रं गजपिप्पली च ॥
क्वाथावलेहौ मधुना विमिश्रौ बालेषु योज्यावतिसारितेषु ॥ १४ ॥
समङ्गाधातकीलोध्रसारिवाभिः शृतं जलम् ॥
दुर्धरेऽपि शिशोर्देयमतिसारे समाक्षिकम् ॥ १५ ॥
नागरातिविषामुस्तावालकेन्द्रयवैः शृतम् ॥
कुमारं पाययेत्प्रातः सर्वातीसारनाशनम् ॥ १६ ॥
मोचरसः समङ्गा च धातकी पद्मकेसरम् ॥
पिष्टैरेतैर्यवागूः स्याद्रक्तातीसारनाशिनी ॥ १७ ॥
कल्कः प्रियङ्गुकोलास्थिमध्यमुस्तरसाञ्जनैः ॥
क्षौद्रलीढः कुमारस्य च्छर्दिस्तृष्णातिसारनुत् ॥ १८ ॥
लेहस्तैलसिताक्षौद्रतिलयष्ट्याह्वकल्कितः ॥
बालस्य रुन्ध्यान्नियतं रक्तास्रावं प्रवाहिकाम् ॥ १९ ॥
लाजा सयष्टिमधुकं शर्करा क्षौद्रमेव च ॥
तण्डुलोदकसंयुक्तं क्षिप्रं हन्ति प्रवाहिकाम् ॥ २० ॥
गुदपाके तु बालानां पित्तघ्नीं कारयेत्क्रियाम् ॥
रसाञ्जनं विशेषेण पानाभ्यञ्जनयोर्हितम् ॥ २१ ॥
कणोषणसिताक्षौद्रसूक्ष्मैलासैन्धवैः कृतः ॥
मूत्रग्रहे प्रयोक्तव्यः शिशूनां लेह उत्तमः ॥ २२ ॥
घृतेन सिन्धुविश्वैलाहिङ्गुभार्गीरजो लिहन् ॥
आनाहं वातिकं शूलं जयेत्तोयेन वा शिशुः ॥ २३ ॥
हरीतकीवचाकुष्ठकल्कं माक्षिकसंयुतम् ॥
पीत्वा कुमारः स्तन्येन मुच्यते तालुपातनात् ॥ २४ ॥
गृहधूमनिशाकुष्ठराजिकेन्द्रयवैः शिशोः ॥
लेपस्तक्रेण हन्त्याशु सिध्मपामाविचर्चिकाः ॥ २५ ॥
पञ्चमूलीकषायेण सघृतेन पयः शृतम् ॥
सशृङ्गवेरं सगुडं शीतं हिक्कार्दितः पिबेत् ॥ २६ ॥
द्राक्षायासाभयाकृष्णाचूर्णं सक्षौद्रसर्पिषा ॥
लीढं श्वासं निहन्त्याशु कासं च तमकं तथा ॥ २७ ॥
पुष्करातिविषाशृङ्गीमागधीधन्वयासकैः ॥
चूर्णं तु मधुना लीढं बालानां पञ्चकासजित् ॥ २८ ॥
भैषज्यं पूर्वमुद्दिष्टं महतां यज्ज्वरादिषु ॥
कार्यं गदेषु बालानां तेषु दाहादिकं विना ॥ २९ ॥
त एव दोषा दूष्याश्च ज्वराद्या व्याधयश्च ते ॥
अतस्तदेव भैषज्यं मात्रा त्वस्य कनीयसी ॥ ३० ॥