Adhikāra 5

त्रयो विकाराः प्रायेण ये परस्परहेतवः ॥
अर्शांसि चातिसारश्च ग्रहणीदोष एव च ॥ १ ॥
तेषामग्निबले हीने वृद्धिर्वृद्धे परिक्षयः ॥
अग्निमूलं बलं पुंसां बलमूलं हि जीवितम् ॥
तस्मादग्निं सदा रक्षेदेषु त्रिषु विशेषतः ॥ २ ॥
91
दुर्नाम्नां साधनोपायश्चतुर्धा परिकीर्तितः ॥
भेषजक्षारशस्त्राग्निसाध्यत्वादाद्य उच्यते ॥ ३ ॥
यद्वायोरानुलोम्याय यदग्निबलवृद्धये ॥
अन्नपानौषधं सर्वं तत्सेव्यं नित्यमर्शसैः ॥ ४ ॥
वातातिसारवद्भिन्नवर्चांस्यर्शांस्युपाचरेत् ॥ ५ ॥
उदावर्तविधानेन गाढविट्कानि चासकृत् ॥
प्रवृत्तबहुलास्राणि पित्तशोणितनाशनैः ॥ ६ ॥
विड्विबन्धे हितं तक्रं यवानीबिडसंयुतम् ॥
न विरोहन्ति गुदजाः पुनस्तक्रसमाहताः ॥ ७ ॥
स्रोतःसु तक्रशुद्धेषु रसः सम्यगुपैति यः ॥
तेन पुष्टिर्बलं वर्णः प्रहर्षश्चोपजायते ॥
वातश्लेष्मविकाराणां शतं च विनिवर्तते ॥ ८ ॥
सगुडां पिप्पलीयुक्तामभयां घृतभर्जिताम् ॥
त्रिवृद्दन्तीयुतां वाऽपि भक्षयेदानुलोमिकाम् ॥ ९ ॥
तिलारुष्करसंयोगं भक्षयेदग्निवर्धनम् ॥
कुष्ठरोगहरं श्रोष्ठमर्शसां नाशनं परम् ॥ १० ॥
तिला भल्लातकं पथ्या गुडश्चेति समांशकम् ॥
दुर्नामश्वासकासघ्नं प्लीहपाण्डुज्वरापहम् ॥ ११ ॥
92
मृल्लिप्तं सौरणं कन्दं पक्त्वाऽग्नौ पुटपाकवत् ॥
अद्यात्सतैललवणं दुर्नामविनिवृत्तये ॥ १२ ॥
असितानां तिलानां प्राक् प्रकुञ्चं शीतवार्यनु ॥
खादतोऽर्शांसि शाम्यन्ति द्विजदार्ढ्याङ्गपुष्टिदम् ॥ १३ ॥
स्विन्नं वार्ताकफलं घोषायाः क्षारजेन सलिलेन ॥
तद्घृतभृष्टं युक्तं गुडेन वा तृप्तितो योऽत्ति ॥ १४ ॥
पिबति च तक्रं नूनं तस्याऽऽश्वेवातिवृद्धगुदजानि ॥
यान्ति विनाशं पुंसः सहजान्यपि सप्तरात्रेण ॥ १५ ॥
पित्तश्लेष्मप्रशमनी कच्छूकण्डूरुजापहा ॥
गुदजान्नाशयत्याशु योजिता सगुडाऽभया ॥ १६ ॥
चित्रकं हपुषा हिङ्गु दद्याद्वा तक्रसंयुतम् ॥ १७ ॥
पञ्चकोलकयुक्तं वा तक्रमस्मै प्रदापयेत् ॥
त्वचं चित्रकमूलस्य पिष्ट्वा कुम्भं प्रलेपयेत् ॥
तक्रं वा दधि वा तत्र जातमर्शोहरं पिबेत् ॥ १८ ॥
त्रिफलादशमूलाग्निनिकुम्भानां पलं पलम् ॥ १९ ॥
वारि द्रोणे शृतं पादशेषे गुडतुलायुतः ॥
आज्यभाण्डस्थितो मासं दन्त्यरिष्टो निषेवितः ॥ २० ॥
93
गुदजकृम्युदावर्तग्रहणीपाण्डुरोगहा ॥
अरिष्टादेस्तु संधानं धातकीलिप्तभाजने ॥ २१ ॥
हरीतकीनां प्रस्थार्धं प्रस्थमामलकस्य च ॥
कपित्थानां दशपलं ततोऽर्धेनेन्द्रवारुणी ॥ २२ ॥
विडङ्गपिप्पलीलोध्रमरिचं सैलवालुकम् ॥
द्विपलांशं जलस्यैतच्चतुर्द्रोणे विपाचयेत् ॥ २३ ॥
द्रोणशेषरसे तस्मिन्पूते शीते प्रदापयेत् ॥
गुडस्य द्विशतं तिष्ठेन्मासार्धं घृतभाजने ॥ २४ ॥
पक्षादूर्ध्वं भवत्येवं ततो मात्रां यथाबलम् ॥
अस्याभ्यासादरिष्टस्य गुदजा यान्ति संक्षयम् ॥ २५ ॥
ग्रहणीपाण्डुत्दृद्रोगप्लीहगुल्मोदरापहः ॥
अष्टशोफारुचिहरो बलवर्णाग्निवर्धनः ॥ २६ ॥
सिद्धोऽयमभयारिष्टः कामलाश्वित्रनाशनः ॥
कृमिग्रन्थ्यर्बुदव्यङ्गराजयक्ष्मज्वरापहः ॥ २७ ॥
पानपानमरिष्टादेः क्वाथपानसमं जगुः ॥
भेषजत्वात्पलं केचित्प्रथमं मन्दलक्षणम् ॥ २८ ॥
भल्लातकानि त्रिफला दन्ती चित्रकमेव च ॥
समभागानि सर्वाणि सैन्धवं द्विगुणं भवेत् ॥ २९ ॥
कपालसंधौ तत्पक्वं मृदुना गोमयाग्निना ॥
एतत्कल्याणलवणं श्रेष्ठमर्शोविकारिणाम् ॥ ३० ॥
94
त्रिपलं शृङ्गवेरस्य चतुर्थं मरिचस्य च ॥
पिप्पल्याः कुडवार्धं च चव्यायाः पलमेव च ॥ ३१ ॥
तालीसपत्रस्य पलं पलार्धं केसरस्य च ॥
द्विपले पिप्पलीमूलादर्धकर्षं च पत्रकात् ॥ ३२ ॥
सूक्ष्मैलाकर्षमेकं तु कर्षं च त्वङ्मृणालयोः ॥
गुडात्पलानि त्रिंशच्च चूर्णमेकत्र कारयेत् ॥ ३३ ॥
अक्षप्रमाणा गुटिकाः प्राणदा इति विश्रुताः ॥
पूर्वं भक्ष्यास्तु पश्चाच्च भोजनस्य यथाबलम् ॥ ३४ ॥
मद्यं मांसरसं यूषं क्षीरं तोयं पिबेदनु ॥
हन्यादर्शांसि सर्वाणि सहजान्यस्रजानि च ॥ ३५ ॥
वातपित्तकफोत्थानि संनिपातोद्भवानि च ॥
पानात्यये मूत्रकृच्छ्रे वातरोगे गलग्रहे ॥ ३६ ॥
विषमज्वरे च मन्देऽग्नौ पाण्डुरोगे तथैव च ॥
कृमिहद्रोगिणां चैव गुल्मशूलार्तिनां तथा ॥ ३७ ॥
श्वासकासपरीतानामेताः स्युरमृतोपमाः ॥
शुण्ठ्याः स्थानेऽभया देया विड्ग्रहे पित्तपायुजे ॥ ३८ ॥
प्राणदोऽयं सितां दत्त्वा चूर्णमानाच्चतुर्गुणाम् ॥
अम्लपित्ताग्निमान्द्यादौ प्रयोज्यो गुदजातुरे ॥ ३९ ॥
अनुपानं प्रयोक्तव्यं व्याधौ श्लेष्मभवे पलम् ॥
पलद्वयं चानिलजे पित्तजे तु पलत्रयम् ॥ ४० ॥
95
पथ्यापञ्चपलान्येकमजाज्या मरिचस्य च ॥
पिप्पली पिप्पलीमूलं चव्यचित्रकनागराः ॥ ४१ ॥
पलाभिवृद्धाः क्रमशो यवक्षारपलद्वयम् ॥
भल्लातकपलान्यष्टौ कन्दस्तु द्विगुणो मतः ॥ ४२ ॥
द्विगुणेन गुडेनैषां वटकानक्षसंमितान् ॥
कृत्वैकं भक्षयेत्प्रातस्तक्रमम्भोऽनु वा पिबेत् ॥ ४३ ॥
मन्दाग्निं दीपयत्येष ग्रहणीपाण्डुरोगनुत् ॥
काङ्कायनेन शिष्येभ्यः शस्त्रक्षाराग्निभिर्विना ॥
भिषग्जितमिदं प्रोक्तं श्रेष्ठमर्शोविकारिणाम् ॥ ४४ ॥
लवणोत्तमवह्निकलिङ्गयवांश्चिरबिल्वमहापिचुमन्दयुतान् ॥
पिब सप्तदिनं मथितालुलितान्यदि मर्दितुमिच्छसि पायुरुहान् ॥ ४५ ॥
शुण्ठीकणामरिचनागदलत्वगेलं चूर्णीकृतं क्रमविवर्धितमूर्ध्वमन्त्यात् ॥
खादेदिदं समसितं गुदजाग्निमान्द्यगुल्मारुचिश्वसनकण्ठहृदामयेषु ॥ ४६ ॥
96
सनागरारुष्करवृद्धदारकं गुडेन यो मोदकमत्युदारकम् ॥
अशेषदुर्नामकरोगदारकं करोति वृद्धं सहसैव दारकम् ॥ ४७ ॥
व्योषाग्न्यरुष्करविडङ्गतिलाभयानां
चूर्णं गुडेन सहितं तु सदोपयोज्यम् ॥
दुर्नामशोफगरकुष्ठशकृद्विबन्धा-
नग्नेर्जयत्यबलतां कृमिपाण्डुतां च ॥ ४८ ॥
चूर्णे चूर्णसमो ज्ञेयो मोदके द्विगुणो गुडः ॥ ४९ ॥
चूर्णीकृताः षोडश सूरणस्य भागास्ततोऽर्धेन च चित्रकस्य ॥
महौषधाद्द्वौ मरिचस्य चैको गुडेन दुर्नामजयाय पिण्डी ॥ ५० ॥
मरिचमहौषधचित्रकसूरणभागा यथोत्तरं द्विगुणाः ॥
सर्वसमो गुडभागः सेव्योऽयं मोदकः प्रसिद्धफलः ॥ ५१ ॥
ज्वलनं ज्वलयति जाठरमुन्मूलयति शूलगुल्मगदान् ॥
निःशेषयति श्वयथुं श्लीपदमर्शांसि नाशयत्याशु ॥ ५२ ॥
षोडश सूरणभागा वह्नेरष्टौ महौषधस्यापि ॥
अर्धेन भागयुक्तिर्मरिचस्य ततोऽपि चार्धेन ॥ ५३ ॥
त्रिफलाकणासमूलातालीसारुष्करकृमिघ्नानाम् ॥
भागा महौषधसमा दहनांशा तालमूली च ॥ ५४ ॥
भागः सूरणतुल्यो दातव्यो वृद्धदारकस्यापि ॥
भृङ्गैले मरिचांशे सर्वाण्येकत्र कारयेच्चूर्णम् ॥ ५५ ॥
97
द्विगुणेन गुडेन युतः सेव्योऽयं मोदकः प्रकामधनैः ॥
गुरुवृष्यभोज्यरहितेष्वितरेषूपद्रवं कुरुते ॥ ५६ ॥
भस्मकमनेन जनितं पूर्वमगस्त्यस्य योगराजेन ॥
भीमस्य मारुतेरपि महाशनौ येन तौ जातौ ॥ ५७ ॥
अग्निबलमत्र हेतुर्न केवलं सूरणो महावीर्यः ॥
प्रभवति शस्त्रक्षाराग्निभिर्विनाऽप्यर्शसामेषः ॥ ५८ ॥
श्वयथुश्लीपदजिदयं हरति ग्रहणीं कफानिलजाम् ॥
नाशयति वलीपलितं मेधां कुरुते वृषत्वं च ॥ ५९ ॥
हिक्कां श्वासं कासं सराजयक्ष्मप्रमेहांश्च ॥
प्लीहानं च तथोग्रं हन्त्याशु रसायनं पुंसाम् ॥ ६० ॥
चव्यं त्रिकटुकं पाठां क्षारं कुस्तुम्बुरूणि च ॥
यवानी पिप्पलीमूलमुभे च बिडसैन्धवे ॥ ६१ ॥
चित्रकं बिल्वमभयां पिष्ट्वा सर्पिर्विपाचयेत् ॥
शकृद्वातानुलोमार्थं जाते दध्नि चतुर्गुणे ॥ ६२ ॥
प्रवाहिकां गुदभ्रंशं मूत्रकृच्छ्रं परिस्रवम् ॥
गुदवङ्क्षणशूलं च घृतमेतद्व्यपोहति ॥ ६३ ॥
पिप्पलीं मधुकं बिल्वं शताह्वां मदनं वचाम् ॥
पुष्कराख्यं शठीं कुष्ठं चित्रकं देवदारु च ॥ ६४ ॥
98
पिष्ट्वा तैलं विपक्तव्यं द्विगुणक्षीरसंयुतम् ॥
अर्शसां मूढवातानां तच्छ्रेष्ठमनुवासनम् ॥ ६५ ॥
गुदनिःसरणं शूलं मूत्रकृच्छ्रं प्रवाहिकाम् ॥
कट्यूरुपृष्ठदौर्बल्यमानाहं वङ्क्षणाश्रयम् ॥ ६६ ॥
पिच्छास्रावं गुदे शोथं वातवर्चोविनिग्रहम् ॥
उत्थानं बहुशो यच्च जयेच्चैवानुवासनात् ॥ ६७ ॥
त्रिवृत्तेजोवती दन्ती श्वदंष्ट्रा चित्रकः शठी ॥
गवाक्षीविश्वमुस्ताह्वविडङ्गानि हरीतकी ॥ ६८ ॥
पलोन्मितानि चैतानि पलान्यष्टावरुष्करात् ॥
षट्पलं वृद्धदारस्य सूरणस्य तु षोडश ॥ ६९ ॥
जलद्रोणद्वये क्वाथ्यं चतुर्भागावशेषितम् ॥
पूतं तु तं रसं भूयः क्वाथ्येभ्यस्त्रिगुणो गुडः ॥ ७० ॥
लेहं पचेत्तु तं तावद्यावद्दर्वीप्रलेपनम् ॥
अबतार्य ततः पश्चाच्चूर्णानीमानि दापयेत् ॥ ७१ ॥
त्रिवृत्तेजोवतीकन्दचित्रकान्द्विपलांशिकान् ॥
एलात्वङ्मरिचं चापि नागाह्वं चापि षट्पलम् ॥ ७२ ॥
द्वात्रिंशच्च पलान्येव चूर्णं दत्त्वा निधापयेत् ॥
ततो मात्रां प्रयुञ्जीत जीर्णे क्षीररसाशनः ॥ ७३ ॥
99
पञ्च गुल्मान्प्रमेहांश्च पाण्डुरोगं हलीमकम् ॥
जयेदर्शांसि सर्वाणि तथा सर्वोदराणि च ॥ ७४ ॥
दीपयेद्ग्रहणीं मन्दां यक्ष्माणं चापि कर्षति ॥
पीनसे च प्रतिश्याय आढ्यवाते तथैव च ॥ ७५ ॥
अयं सर्वगदेष्वेव कल्याणो लेह उत्तमः ॥
दुर्नामारिरयं चाऽऽशु दृष्टो वारसहस्रशः ॥ ७६ ॥
जीवन्त्येनं प्रयुञ्जानाः शतवर्षाण्यनामयाः ॥
आयुषो दैर्घ्यजननो वलीपलितनाशनः ॥ ७७ ॥
रसायनवरश्चैव मेधाजनन उत्तमः ॥
गुडः श्रीबाहुशालोऽयं दुर्नामारिः प्रकीर्तितः ॥ ७८ ॥
तोयपूर्णे यदा पात्रे क्षिप्तो न प्लवते गुडः ॥
क्षिप्तस्तु निश्चलस्तिष्ठेत्पतितस्तु न शीर्यते ॥ ७९ ॥
यदा दर्वीप्रलेपः स्याद्यदा वा तन्तुली भवेत् ॥
एष पाको गुडादीनां सर्वेषां परिकीर्तितः ॥ ८० ॥
सुखमर्दः सुखस्पर्शो गन्धवर्णरसान्वितः ॥
पीडितो भजते मुद्रां गुडः पाकमुपागतः ॥ ८१ ॥
100
भल्लातकसहस्रे द्वे जलद्रोणे विपाचयेत् ॥
पादशेषे रसे तस्मिन्पचेद्गुडतुलां भिषक् ॥ ८२ ॥
भल्लातकसहस्रार्धं छित्त्वा तत्रैव दापयेत् ॥
सिद्धेऽस्मिंस्त्रिफलाव्योषयवानीमुस्तसैन्धवैः ॥ ८३ ॥
कर्षांशैश्चूर्णितैर्दद्यात्त्वगेलापत्रकेसरम् ॥
खादेदग्निबलापेक्षी प्रातरुत्थाय मानवः ॥ ८४ ॥
कुष्ठार्शःकामलामेहग्रहणीगुल्मपाण्डुताः ॥
हन्यात्प्लीहोदरं कासं कृमिरोगभगंदरान् ॥
भल्लातकगुडो ह्येष श्रेष्ठश्चार्शोविकारिणाम् ॥ ८५ ॥
दशमूल्यमृता भार्ङ्गी श्वदंष्ट्रा चित्रकं शठी ॥ ८६ ॥
भल्लातकसहस्रं तु पलांशं क्वाथयेद्बुधः ॥
दत्त्वा गुडतुलामेकां लेहीभूतं समुद्धरेत् ॥ ८७ ॥
माक्षिकं पिप्पलीं तैलमौरुबूकं च दापयेत् ॥
कुडवं कुडवं चात्र त्वगेलामरिचं तथा ॥ ८८ ॥
अर्शःकासमुदावर्तं पाण्डुत्वं शोफमेव च ॥
नाशयेद्वह्निसादं च गुडो भल्लातकः स्मृतः ॥ ८९ ॥
101
चित्रकं त्रिफला मुस्तं ग्रन्थिकं चविकाऽमृता ॥
हस्तिपिप्पल्यपामार्गदण्डोत्पलकुठेरकाः ॥ ९० ॥
एषां चतुष्पलान्भागाञ्जलद्रोणे विपाचयेत् ॥
भल्लातकसहस्रे द्वे छित्त्वा तत्रैव दापयेत् ॥ ९१ ॥
तेन पादावशेषेण लोहपात्रे पचेद्भिषक् ॥
तुलार्धं तीक्ष्णलोहस्य घृतस्य कुडवद्वयम् ॥ ९२ ॥
त्र्यूषणं त्रिफलां वह्निं सैन्धवं बिडमौद्भिदम् ॥
सौवर्चलं विडङ्गं च पलिकांशं प्रकल्पयेत् ॥ ९३ ॥
कुडवं वृद्धदारस्य तालमूल्यास्तथैव च ॥
सूरणस्य पलान्यष्टौ चूर्णं कृत्वा विनिक्षिपेत् ॥ ९४ ॥
सिद्धे शीते प्रदातव्यं मधुनः कुडवद्वयम् ॥
प्रातर्भोजनकाले वा ततः खादेद्यथाबलम् ॥ ९५ ॥
अर्शांसि ग्रहणीदोषं पाण्डुरोगमरोचकम् ॥
कृमिगुल्माश्मरीमेहाञ्शूलं चाऽऽशु व्यपोहति ॥ ९६ ॥
करोति शुक्रोपचयं वलीपलितनाशनम् ॥
रसायनमिदं श्रेष्ठं सर्वरोगहरं परम् ॥ ९७ ॥
रक्तार्शसामुपेक्षेत रक्तमादौ स्रवद्भिषक् ॥
दुष्टास्रे निगृहीते तु शूलानाहावसृग्गदाः ॥ ९८ ॥
102
कुटजत्वङ्निर्यूहः सनागरः स्निग्धरक्तसंग्रहणः ॥
त्वग्दाडिमस्य तद्वत्सनागरश्चन्दनरसश्च ॥ ९९ ॥
चन्दनकिराततिक्तकधन्वयवासाः सनागराः क्वथिताः ॥
रक्तार्शसां प्रशमना दार्वीत्वगुशीरनिम्बाश्च ॥ १०० ॥
नवनीततिलाभ्यासात्केसरनवनीतशर्कराभ्यासात् ॥
दधिसरमथिताभ्यासाद्गुदजाः शाम्यन्ति रक्तवहाः ॥ १०१ ॥
समङ्गोत्पलमोचाह्वतिरीटतिलचन्दनैः ॥
छागीक्षीरं प्रयोक्तव्यं गुदजे शोणितापहम् ॥ १०२ ॥
कुटजफलवल्कलकेसरनीलोत्पललोध्रधातकीकल्कैः ॥
सिद्धं घृतं विधेयं शूले रक्तार्शसां भिषजा ॥ १०३ ॥
कुटजत्वक्पलशतं जलद्रोणे विपाचयेत् ॥
अष्टभागावशेषं तु कषायमवतारयेत् ॥ १०४ ॥
वस्त्रपूतं पुनः क्वाथं पचेल्लेहत्वमागतम् ॥
भल्लातकं विडङ्गानि त्रिकटु त्रिफलां तथा ॥ १०५ ॥
रसाञ्जनं चित्रकं च कुटजस्य फलानि च ॥
वचामतिविषां बिल्वं प्रत्येकं तु पलं पलम् ॥ १०६ ॥
त्रिंशत्पलानि गुडस्य चूर्णीकृत्य निधापयेत् ॥
मधुनः कुडवं दद्याद्धृतस्य कुडवं तथा ॥ १०७ ॥
103
एष लेहस्तु शमयेदर्शोरक्तसमुद्भवम् ॥
वातिकं पैत्तिकं चैव श्लैष्मिकं सांनिपातिकम् ॥ १०८ ॥
ये च दुर्नामजा रोगास्तान्सर्वान्नाशयत्यपि ॥
अम्लपित्तमतीसारं पाण्डुरोगमरोचकम् ॥ १०९ ॥
ग्रहणीमार्दवं कार्श्यं श्वयथुं कामलामपि ॥
अनुपानं घृतं दद्यान्मधु तक्रं जलं पयः ॥
रोगानीकवधार्थाय कौटजो लेह उच्यते ॥ ११० ॥
तोये कालकमुष्ककस्य विपचेद्भस्माढकं षड्गुणे
पात्रे लोहमये दृढे विपुलधीर्दर्व्या शनैर्घट्टयेत् ॥
दग्ध्वाऽग्नौ बहुशङ्खनाभिशकलान्पूतावशेषे क्षिपे-
द्यद्येरण्डजनालमेष दहति क्षारो वरो वाक्शतात् ॥ १११ ॥
पानाय भावनायाथ परिस्राव्यं चतुर्गुणम् ॥ ११२ ॥
104
द्वैगुण्यं नाऽऽढकेऽप्यत्र भागमात्रोपलक्षणात् ॥
अच्छपैच्छिल्यरक्तत्वे क्षाराम्भो ग्राह्यमिष्यते ॥ ११३ ॥
पानीयः प्रतिसारणीय इति च क्षारो द्विधा
शस्यते तत्राऽऽद्यो गरगुल्मकादिशमने दुर्नामकादौ परः ॥
तुर्येणाष्टमकेन षोडशभवेनांशेन संव्यूहिमो
मध्यः श्रेष्ठ इति क्रमेण विहितः क्षारोदकाच्छङ्खकः ॥ ११४ ॥
भावितं रजनीचूर्णैः स्नुहीक्षीरे पुनः पुनः ॥
बन्धनात्सुदृढं सूत्रं छिनत्त्यर्शोभगंदरम् ॥ ११५ ॥
105
प्राग्दक्षिणं ततो वामं पृष्ठजं वाऽग्रजं क्रमात् ॥
पञ्चतिक्तेन संस्नेह्य दहेत्क्षारेण वह्निना ॥
वातजं श्लेष्मजं चार्शः क्षारेणास्रजपित्तजे ॥ ११६ ॥
गोजीशेफालिकापत्रैरर्शः संलिख्य लेपयेत् ॥ ११७ ॥
क्षारेण वाक्शतं तिष्ठेद्यन्त्रद्वारं पिधाय च ॥
तं चापनीय वीक्षेत पक्वजम्बुफलोपमम् ॥ ११८ ॥
यदि तत्स्यात्तदा भद्रं नो चेल्लिम्पेत्तथा पुनः ॥
तत्तुषाम्बुप्लुतं साज्ययष्टीकल्केन लेपयेत् ॥ ११९ ॥
न निम्नं तालकर्णाभं वह्निदग्धे स्थितास्रकम् ॥
106
निर्वाप्य मधुसर्पिर्भ्यां वह्निसंजातवेदनम् ॥ १२० ॥
सम्यग्दग्धे तुगाक्षीरीप्लक्षचन्दनगैरिकैः ॥
सामृतैः सर्पिषा युक्तैरालेपं कारयेद्भिषक् ॥ १२१ ॥
मुद्दूर्तमुपवेश्योऽसौ तोयसंपूर्णभाजने ॥
क्षारमुष्णाम्बुना(नो) पास्यो(स्यं) विबन्धे मूत्रवर्चसोः ॥ १२२ ॥
दाहे वस्त्यादिजे लेपः शतधौतेन सर्पिषा ॥
नवान्नमाषतक्रादि सेव्यं पाकाय मात्रया ॥ १२३ ॥
पिबेद्व्रणविशुद्ध्यर्थं वराक्वाथं सगुग्गुलुम् ॥
जीर्णशाल्यन्नमुद्गादि पथ्यं तिक्ताज्यसैन्धवम् ॥ १२४ ॥
107
रूढसर्वव्रणं वैद्यः क्षारं दत्त्वाऽनुवासयेत् ॥
पिप्पल्याद्येन तैलेन सेवेद्दीपनभेषजम् ॥ १२५ ॥
महांति गुरुमूलानि च्छित्त्वैवं बलिनो दहेत् ॥
चर्मकीलं तथा छित्त्वा दहेदन्यतरेण वा ॥ १२६ ॥
पक्वजम्बूसमो वर्णः क्षारदग्धे प्रशस्यते ॥
वेगावरोधं स्त्रीपृष्ठयानमुत्कटकासनम् ॥
यथास्वं दोषलं चान्नमर्शसां परिवर्जयेत् ॥ १२७ ॥