Adhikāra 68
मूलं तण्डुलवारिणा पिबति यः प्रत्यङ्गिरासंभवं
निष्पिष्टं शुचिभद्रयोगदिवसे तस्याहिभीतिः कुतः ॥
दर्पादेव फणी यदा दशति तं मोहान्वितो मूलपं
स्थाने तत्र तदैव याति नियतं वक्त्रं यमस्याचिरात् ॥ १ ॥
मयूरं निम्बपत्राभ्यां खादेन्मेषगते रवौ ॥
अब्दमेकं न भीतिः स्याद्विषार्तस्य न संशयः ॥ २ ॥
दंशस्योपरि बध्नीयात्तत्क्षणाच्चतुरङ्गुले ॥
क्षौमादिभिर्वेणिकया सिद्धैर्मन्त्रैश्च मन्त्रवित् ॥ ३ ॥
अम्बुवत्सेतुबन्धेन बन्धेन स्तभ्यते विषम् ॥
न वहन्ति शिराश्चास्य मर्मसंधिगता अपि ॥
न जायते विषोद्वेगो बीजनाशादिवाङ्कुरः ॥ ४ ॥
सत्त्वमालम्ब्य दष्टव्यस्तत्क्षणादुरगो रिपुः ॥
कोमलं वा यदन्यच्च पेयं शीतं घृतं गवाम् ॥ ५ ॥
वाच्यो वा नीलकण्ठोऽहं ध्येया वा गारुडी तनुः ॥
शून्यताध्यानमात्रेण शून्यतां याति तद्विषम् ॥ ६ ॥
श्लेष्मणः कर्णगूथस्य वामानामिकया कृतः ॥
लेपो हन्याद्विषं घोरं नृमूत्रासेचनं तथा ॥ ७ ॥
कुलिकमूलनस्येन कालदष्टोऽपि जीवति ॥ ८ ॥
पिण्डीतगरकमूलं पुष्येणोत्पाट्य योजितं दंशे ॥
मृतमपि दष्टकपुरुषं चालयतीत्यत्र नो चित्रम् ॥ ९ ॥
शिरीषपत्रस्वरसे सप्ताहं मरिचं सितम् ॥
भावितं सर्पदष्टानां पाने नस्याञ्जने हितम् ॥ १० ॥
नक्तमालफलव्योषबिल्वमूलनिशाद्वयम् ॥
सौरसं पुष्पमार्जं च मूत्रं बोधनमञ्जनम् ॥ ११ ॥
वन्ध्याकर्कोटकीमूलं छागमूत्रेण भावितम् ॥
नस्यं काञ्जिकसंपिष्टं विषोपहतचेतसः ॥ १२ ॥
त्रिवृद्विशल्या मधुकं हरिद्रे माञ्जिष्ठवर्गो लवणं च सर्वम् ॥
कटुत्रिकं चैव विचूर्णितानि शृङ्गे निदध्यान्मधुसंयुतानि ॥ १३ ॥
एषोऽगदो हन्त्युपयुज्यमानः पानाञ्जनाभ्यञ्जननस्ययोगैः ॥
अवार्यवीर्यो विषवेगहन्ता महागदो नाम महाप्रभावः ॥ १४ ॥
कटभ्यर्जुनसैरेयशेलुक्षीरिद्रुमत्वचः ॥
कषायकल्कचूर्णाः स्युः कीटलूताव्रणापहाः ॥ १५ ॥
आगारधूममञ्जिष्ठारजनीलवणोत्तमैः ॥
लेपो जयत्याखुविषं कर्णिकायाश्च पातनम् ॥ १६ ॥
यः कासमर्दमूलं वदने प्रक्षिप्य कर्णफूत्कारम् ॥
मनुजो ददाति शीघ्रं जयति विषं वृश्चिकानां सः ॥ १७ ॥
रजनीसैन्धवक्षौद्रसंयुक्तं घृतमुत्तमम् ॥
पानं मूलविषार्तस्य दिग्धविद्धस्य चेष्यते ॥ १८ ॥
चतुष्पाद्भिर्द्विपाद्भिर्वा नखदन्तक्षतं तु यत् ॥
शूयते पच्यते चापि स्रवति ज्वरयत्यपि ॥ १९ ॥
सोमवल्कोऽश्वकर्णश्च गोजिह्वा हंसपाद्यपि ॥
रजन्यौ गैरिकं लेपो नखदन्तविषापहः ॥ २० ॥
वचाहिङ्गुविडङ्गानि सैन्धवं गजपिप्पली ॥
पाठा प्रतिविषा व्योषं काश्यपेन विनिर्मितम् ॥
दशाङ्गमगदं पीत्वा सर्वकीटविषं जयेत् ॥ २१ ॥
कीटदष्टक्रियाः सर्वाः समानाः स्युर्जलौकसाम् ॥ २२ ॥
छत्री झर्झरपाणिश्च चरेद्रात्रौ तथा दिवा ॥
तच्छायाशब्दसंत्रस्ताः प्रणश्यन्तीह पन्नगाः ॥ २३ ॥
सोत्कम्पः पुलकावृतः प्रति मुहुर्वक्त्रं समालोकते
दन्तेनाधरपल्लवं दशति चेत्सीत्कान्वितं कूजति ॥
यस्तापं जडतां च याति नितरां दष्टः स उत्कण्ठते
र(ग)न्तुं त्वस्थिशलामलाम्बरवतीं रौद्रां श्मशानस्थलीम् ॥ २४ ॥
विरुद्धाध्यशनक्रोधक्षुद्भयोष्णं च मैथुनम् ॥
वर्जयेद्विषमुक्तोऽपि दिवास्वप्नं विशेषतः ॥ २५ ॥