517
ये मासमेकं स्वरसं पिबन्ति दिने दिने भृङ्गरजःसमुथम् ॥
क्षीराशिनस्ते बलवर्णयुक्ताः समाः शतं जीवितमाप्नुवन्ति ॥ ८ ॥
असिततिलविमिश्रान्पल्लवान्भक्षयेद्यः
सततमिह पयोशी भृङ्गराजस्य मासम् ॥
भवति स चिरजीवी व्याधिभिर्विप्रयुक्तो
भ्रमरसदृशकेशः कामचारी मनुष्यः ॥ ९ ॥
पीताऽश्वगन्धा पयसाऽर्धमासं घृतेन तैलेन सुखाम्बुना वा ॥
कृशस्य पुष्टिं वपुषो बिभर्ति बालस्य सस्यस्य यथाऽम्बुवृष्टिः ॥ १० ॥
धात्रीतिलान्भृङ्गरजोविमिश्रान्ये भक्षयेयुर्मनुजाः क्रमेण ॥
ते कृष्णकेशा विमलेन्द्रियाश्च निर्व्याधयोऽप्यामरणाद्भवेयुः ॥ ११ ॥
मासं वचामप्युपसेवमानाः क्षीरेण तैलेन घृतेन वाऽपि ॥
भवन्ति रक्षोभिरधृष्यरूपा मेधाविनो निर्मलमृष्टवाचः ॥ १२ ॥
वृद्धदारुकमूलानि सूक्ष्मचूर्णानि कारयेत् ॥
शतावर्या रसेनैव सप्तवारांश्च भावयेत् ॥ १३ ॥