516
पूर्वे वयसि मध्ये वा शुद्धकायः समाचरेत् ॥ १ ॥
अविशुद्धशरीरस्य युक्तो रासायनो विधिः ॥
न भाति वाससि क्लिष्टे रङ्गयोग इवार्पितः ॥ २ ॥
सिन्धूत्थशर्कराशुण्ठीकणामधुगुडैः क्रमात् ॥
वर्षादिष्वभया सेव्या रसायनगुणैषिणा ॥ ३ ॥
त्रैफलेनाऽऽयसीं पात्रीं कल्केनाऽऽलेपयेन्नवाम् ॥
तमाहोरात्रिकं लेपं पिबेत्क्षौद्रोदकाप्लुतम् ॥ ४ ॥
प्रभूतस्नेहमशनं जीर्णे तस्मिन्प्रयोजयेत् ॥
अजरोऽरुक्समाभ्यासाज्जीवेच्चापि समाः शतम् ॥ ५ ॥
मण्डूकपर्ण्याः स्वरसः प्रयोज्यः क्षीरेण यष्टीमधुकस्य चूर्णम् ॥
रसो गुडूच्यास्तु समूलपुष्प्याः कल्कः प्रयोज्यः खलु शङ्खपुष्प्याः ॥ ६ ॥
आयुष्प्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्धनानि ॥
मेध्यानि चैतानि रसायनानि मेध्या विशेषेण तु शङ्खपुष्पी ॥ ७ ॥