Adhikāra 74

स्निग्धस्विन्नाय वान्ताय प्रदातव्यं विरेचनम् ॥
अन्यथा योजितं ह्येतद्ग्रहणीरोगकृन्मतम् ॥ १ ॥
550
पित्तेन स्यान्मृदुः कोष्ठः क्रूरो वातकफाश्रयात् ॥
मध्यमः समदोषत्वान्मात्रा योज्याऽनुरूपतः ॥ २ ॥
शर्कराक्षौद्रसंयुक्तं त्रिवृच्चूर्णावचूर्णितम् ॥
रेचनं सुकुमाराणां त्वक्पत्रमरिचांशकम् ॥ ३ ॥
भित्त्वा द्विधेक्षुं परिलिप्य कल्कैस्त्रिभण्डिजातैः परिवेष्ट्य रज्ज्वा ॥
पक्वं तु सम्यक्पुटपाकयुक्त्या खादेत्तु तं पित्तगदी सुशीतम् ॥ ४ ॥
पिप्पलीनागरक्षारश्यामास्त्रिवृतया सह ॥
लेहयेन्मधुना सार्धं कफव्याधौ विरेचनम् ॥ ५ ॥
551
हरीतकी विडङ्गानि सैन्धवं नागरं त्रिवृत् ॥
मरिचानि च तत्सर्वं गोमूत्रेण विरेचनम् ॥ ६ ॥
त्रिवृच्छाणत्रयसमा त्रिफला तत्समानि च ॥
क्षारकृष्णाविडङ्गानि तच्चूर्णं मधुसर्पिषा ॥ ७ ॥
लिह्याद्गुडेन गुटिकां कृत्वा वाऽप्युपकल्पयेत् ॥
कफवातकृतान्गुल्मान्प्लीहोदरभगंदरान् ॥
हन्त्यन्यानपि चाप्येतन्निरपायं विरेचनम् ॥ ८ ॥
अभया पिप्पलीमूलं मरिचं विश्वभेषजम् ॥
त्वक्पत्रपिप्पलीमुस्तविडङ्गामलकानि च ॥ ९ ॥
एतानि समभागानि दन्ती च त्रिगुणा भवेत् ॥
त्रिवृदष्टगुणा देया षड्गुणा चात्र शर्करा ॥ १० ॥
मधुना मोदकान्वद्ध्वा चाक्षमात्रं प्रमाणतः ॥
एकैकं भक्षयेत्प्रातः शीतं चानु पिबेज्जलम् ॥ ११ ॥
तावद्विरिच्यते जन्तुर्यावदुष्णं न सेवते ॥
पानाहारविहारेषु भवेच्चापि नियन्त्रणः ॥ १२ ॥
पाण्डुत्वकासविषमज्वरवह्निसादा-
ञ्जङ्घोरुपृष्ठजघनोदरपार्श्वशूलान् ॥
दुर्नामकुण्डलभगंदरशोफगुल्मा-
न्यक्ष्मोदरभ्रमविदाहकमूत्रकृच्छ्रान् ॥ १३ ॥
552
प्लीहाक्षिरोगपवनाश्मरिकुष्ठमेहा-
न्हन्याद्रसायनमिदं भिषजा प्रयुक्तम् ॥
अल्पव्ययं बहुफलं सततं प्रयोज्य-
मायुष्करं पलितनाशनमश्विदृष्टम् ॥ १४ ॥
पथ्यासैन्धवकृष्णानां कल्कमुष्णाम्बुना पिबेत् ॥
विरेकः सर्वदोषघ्नः श्रेष्ठो नाराचसंज्ञितः ॥ १५ ॥
विडङ्गसारामलकाभयानां पलं पलं स्यात्त्रिवृतात्रयं च ॥
गुडस्य षड्द्वादशभागयुक्ता मासेन त्रिंशद्गुटिका विधेयाः ॥ १६ ॥
निवारणे यक्षवरेण सृष्टः स माणिभद्रः किल शाक्यभिक्षवे ॥
अयं हि कासक्षयकुष्ठनाशनो भगंदरप्लीहजलोदरार्शसाम् ॥ १७ ॥
एरण्डतैलं त्रिफलाक्वाथेन त्रिगुणेन च ॥
युक्तं पीतं पयोभिर्वा न चिरेण विरिच्यते ॥ १८ ॥
553
हृत्कुक्ष्यशुद्धिः परिदाहकण्डूविण्मूत्रसङ्गाश्च न सद्विरिक्ते ॥
मूर्छागुदभ्रंशकफातियोगाः शूलोद्गमश्चातिविरिक्तलिङ्गम् ॥ १९ ॥
गतेषु दोषेषु कफान्तिकेषु नाभ्यां लघुत्वे मनसश्च तुष्टौ ॥
गतेऽनिले चाप्यनुलोमभावं सम्यग्विरिक्तं मनुजं व्यवस्येत् ॥ २० ॥
मन्दाग्निमक्षीणमसद्विरिक्तं न पाययेत्तद्दिवसे यवागूम् ॥
क्षीणं तृषार्तं सुविरेचितं च तन्वीं सुखोष्णां लघु पाययेत्तु ॥ २१ ॥
बुद्धेः प्रसादं बलमिन्द्रियाणां
धातुस्थिरत्वं ज्वलनस्य दीप्तिम् ॥
चिराच्च पाकं वयसः करोति
विरेचनं सम्यगुपास्यमानम् ॥ २२ ॥
554
यथौदकानां भुवि जङ्गमानां सेतौ विदीर्णे ध्रुव एव नाशः ॥
पित्ते हते त्वेवमुपद्रवाणां पित्तात्मकानां नियतो विनाशः ॥ २३ ॥
क्षीणक्षतोरूक्षितबालवृद्धा दीनोऽथ शोषी भयशोकतप्तः ॥
श्रान्तस्तृषार्तोऽपरिजीर्णभक्तो गर्भिण्यधो गच्छति यस्य वाऽसृक् ॥ २४ ॥
नवप्रतिश्यायपरीतदेहो नवज्वरी या च नवप्रसूता ॥
कषायनित्या न विरेचनीयाः स्नेहादिभिर्ये त्वनुपस्कृताश्च ॥ २५ ॥
मन्दाग्न्यतिस्नेहितबालवृद्धस्थूलक्षतक्षीणभयोपतप्ताः ॥
श्रान्तस्तृषार्तोऽपरिजीर्णभक्तो गर्भिण्यधो गच्छति यस्य चासृक् ॥ २६ ॥
नवप्रतिश्यायमदात्ययी च नवज्वरी या च नवप्रसूता ॥
शल्यार्दिताश्चाप्यविरेचनीयाः स्नेहादिभिर्ये त्वनुपस्कृताश्च ॥
अत्यर्थपित्ताभिपरीतदेहान्विरेचयेत्तानपि मन्दमन्दम् ॥ २७ ॥
विरेचनैर्यान्ति नरा विनाशमज्ञप्रयुक्तैरविरेचनीयाः ॥ २८ ॥
555
न चातिस्निग्धकायस्य दद्यात्स्नेहविरेचनम् ॥
दोषाः प्रच्याविता भूयो लीयन्ते तेन वर्त्मसु ॥ २९ ॥
विरूक्षस्नेहसात्म्यं तु भूयः संस्नेह्य रेचयेत् ॥
तेन दोषा हतास्तस्य भवन्ति स्नेहबन्धनाः ॥ ३० ॥
स्नेहस्वेदावकृत्वैव यस्तु संशोधनं पिबेत् ॥
दारु शुष्कमिवाऽऽ नाभेर्देहस्तस्य विदीर्यते ॥ ३१ ॥
स्नेहस्वेदप्रचलिता रसैः स्निग्धैरुदीरिताः ॥
दोषाः कोष्ठगता जन्तोः सुखं हर्तुं विरेचनैः ॥ ३२ ॥
आस्थाप्य स्नेहितं तीक्ष्णै रेचयेद्धीनरेचितम् ॥ ३३ ॥
556

No verses of the Siddhayoga on this page. The commentary Kusumāvali was not digitized.

557
पद्मकोशीरनागाह्वचन्दनानि प्रयोजयेत् ॥
अतियोगे विरेकस्य पानालेपनसेचनैः ॥ ३४ ॥
सौवीरपिष्टः सहकारकल्को नाभिप्रलेपादतिसारहन्ता ॥ ३५ ॥