598
उच्छिङ्घन्न पिबेच्चैनं निष्ठीवेन्मुखमागतम् ॥ १२ ॥
नस्येन रोगाः शाम्यन्ति नराणामूर्ध्वजत्रुजाः ॥
इन्द्रियाणां च वैमल्यं कुर्यादास्यं सुगन्धि च ॥ १३ ॥
हनुदन्तशिरोग्रीवात्रिकबाहूरसां बलम् ॥
वलीपलितखालित्यव्यङ्गानां चाप्यसंभवम् ॥ १४ ॥
तैलं कफे सवाते च केवले पवने वसाम् ॥
दद्यात्सर्पिः सदा पित्ते मज्जानं च समारुते ॥
चतुर्विधस्य स्नेहस्य विधिरेष प्रकीर्तितः ॥ १५ ॥
श्लेष्मस्थानाविरोधित्वात्तेषु तैलं विशिष्यते ॥ १६ ॥
विषाभिभूतसंन्यासमूर्छामोहापतन्त्रके ॥
मदापस्मारशोकार्तिचिन्ताक्रोधभयादिषु ॥ १७ ॥
मानसेषु च रोगेषु मूढव्याकुलचेतसाम् ॥
संज्ञाप्रबोधहेत्वर्थमवपीडं प्रदापयेत् ॥ १८ ॥