Adhikāra 79

स्निग्धोष्णैः स्नैहिको वाते स्वादुशीतैः प्रसादनः ॥
पित्ते कट्वम्ललवणैरुष्णैः संशोधनः कफे ॥
कषायतिक्तमधुरैः कटूष्णै रोपणो व्रणे ॥ १ ॥
600
सुखं संचार्यते या तु मात्रा सा कवले मता ॥
असंचार्या तु या मात्रा गण्डूषे सा प्रकीर्तिता ॥ २ ॥
तावच्च धारयितव्योऽनन्यमनसोन्नतदेहेन संचारयितव्यश्च ।
यावद्दोषपरिपूर्णगलकपोलत्वं नासास्रोतोनयनपरिप्लवश्च भवति
तदा विमोक्तव्यः । अन्यश्चान्यो ग्रहीतव्य इति ॥
एवं स्नेहपयःक्षौद्ररसमूत्राम्लसंभृताः ॥
कषायोष्णोदकाभ्यां च कवला दोषतो हिताः ॥ ३ ॥
601
व्याधेरपचयस्तुष्टिर्वैशद्यं वक्त्रलाघवम् ॥ ४ ॥
इन्द्रियाणां प्रसादश्च कवले शुद्धिलक्षणम् ॥
हीने जाड्यकफोत्क्लेशान्न रसज्ञानमेव च ॥ ५ ॥
अतियोगान्मुखे पाकः शोषतृष्णारुचिक्लमाः ॥
शोधनीयौर्विशेषेण भवत्येतत्तु लक्षणम् ॥ ६ ॥
तिला नीलोत्पलं सर्पिः शर्करा क्षीरमेव च ॥
सक्षौद्रो दग्धवत्क्रस्य गण्डूषो दाहनाशनः ॥ ७ ॥
कवलस्य विधिर्ह्येष समासेन प्रकीर्तितः ॥ ८ ॥
विभज्य भेषजं बुद्ध्या कुर्वीत प्रतिसारणम् ॥
कल्को रसक्रिया क्षौद्रं चूर्णं चेति चतुर्विधम् ॥ ९ ॥
अङ्गुल्या घर्षणं यत्तत्प्रतिसारणमुच्यते ॥
अङ्गुल्यग्रप्रणीतं तु यथास्वं मुखरोगिणाम् ॥ १० ॥
602
तस्मिन्योगमयोगं च कवलोक्तं विभावयेत् ॥
भोजयेच्चानभिष्यन्दि दोषघ्नमशनं परम् ॥ ११ ॥
तानेव शमयेद्व्याधीन्कवलो यानपोहति ॥ १२ ॥