600
सुखं संचार्यते या तु मात्रा सा कवले मता ॥
असंचार्या तु या मात्रा गण्डूषे सा प्रकीर्तिता ॥ २ ॥
तावच्च धारयितव्योऽनन्यमनसोन्नतदेहेन संचारयितव्यश्च ।
यावद्दोषपरिपूर्णगलकपोलत्वं नासास्रोतोनयनपरिप्लवश्च भवति
तदा विमोक्तव्यः । अन्यश्चान्यो ग्रहीतव्य इति ॥
एवं स्नेहपयःक्षौद्ररसमूत्राम्लसंभृताः ॥
कषायोष्णोदकाभ्यां च कवला दोषतो हिताः ॥ ३ ॥