Adhikāra 81

614
धर्मार्थकाममोक्षाणामारोग्यं मूलमुत्तमम् ॥
रोगास्तस्यापहर्तारः श्रेयसो जीवितस्य च ॥ १ ॥
तस्मादात्मवता नित्यमाहाराचारभेषजम् ॥
धीमता तदनुष्ठेयं स्वास्थ्यं येनानुवर्तते ॥ २ ॥
समदोषः समाग्निश्च समधातुमलक्रियः ॥
प्रसन्नात्मेन्द्रियमनाः स्वस्थ इत्यभिधीयते ॥ ३ ॥
615

No verses of the Siddhayoga on this page. The commentary Kusumāvali was not digitized.

616

No verses of the Siddhayoga on this page. The commentary Kusumāvali was not digitized.

617
दोषाणां साम्यमारोग्यं वैषम्यं व्याधिरुच्यते ॥
वृद्धिः समानैः सर्वेषां प्रशमस्तु विपर्ययैः ॥ ४ ॥
618
स्रोतोरोधबलभ्रंशगौरवानिलमूढताः ॥
आलस्यापक्तिनिष्ठेवमलसङ्गारुचिक्लमाः ॥
लिङ्गं मलानां सामानां निरामाणां विपर्ययः ॥ ५ ॥
ऊष्मणोऽल्पबलत्वेन धातुमान्द्यमपाचितम् ॥
दुष्टमामाशयगतं रसमामं प्रचक्षते ॥ ६ ॥
आमेन तेन संपृक्ता दोषा दूष्याश्च दूषिताः ॥
सामा इत्युपदिश्यन्ते ये च रोगास्तदुद्भवाः ॥ ७ ॥
वायुः सामो विबन्धाग्निसादस्तम्भान्त्रकूजनैः ॥
वेदनाशोथनिस्तोदैः क्रमशोऽङ्गानि पीडयन् ॥ ८ ॥
619
विचरेद्युगपच्चापि गृह्णाति कुपितो भृशम् ॥
स्नेहाद्यैर्वृद्धिमायाति सूर्यमेघोदये निशि ॥ ९ ॥
निरामो विशदो रूक्षो निर्विबन्धोऽल्पवेदनः ॥
विपरीतगुणैः शान्तिं स्निग्धैर्याति विशेषतः ॥ १० ॥
दुर्गन्धि हरितं श्यावं पित्तमम्लं स्थिरं गुरु ॥
अम्लिकाकण्ठहृद्दाहकरं सामं विनिर्दिशेत् ॥ ११ ॥
आताम्रपीतमत्युष्णं रसे कटुकमस्थिरम् ॥
पक्वं विगन्धि विज्ञेयं रुचिपक्तिबलप्रदम् ॥ १२ ॥
आविलस्तन्तुलः स्त्यानः कण्ठदेशेऽवतिष्ठते ॥
सामो बलासो दुर्गन्धः क्षुदुद्गारविघातकृत् ॥ १३ ॥
फेनवान्पिण्डितः पाण्डुर्निःसारोऽगन्ध एव च ॥
पक्वः स एव विज्ञेयश्छेदवान्वक्त्रशुद्धिकृत् ॥ १४ ॥
पटुतिक्तककट्वम्लस्वादुतिक्तकमृष्टकाः ॥
कषायश्च कषायश्च क्रमात्तेषां त्रयस्त्रयः ॥ १५ ॥
आमेषु पच्यमानेषु पक्वेष्वप्यनिलादिषु ॥
पाचनं पाकसमकृच्छमनं च यथाक्रमम् ॥ १६ ॥
रूक्षः शीतो लघुः सूक्ष्मश्चलोऽथ विशदः खरः ॥
विपरीतगुणैर्द्रव्यैर्मारुतः संप्रशाम्यति ॥ १७ ॥
620
सस्नेहमुष्णं तीक्ष्णं च द्रवमम्लं सरं कटु ॥
विपरीतगुणैः पित्तं द्रव्यैराशु प्रशाम्यति ॥ १८ ॥
621
गुरुशीतमृदुस्निग्धमधुरस्थिरपिच्छिलाः ॥
श्लेष्मणः प्रशमं यान्ति विपरीतगुणैर्गुणाः ॥ १९ ॥
622
क्षुत्संभवति जीर्णेषु रसदोषमलेषु च ॥
उचितोऽनुचितो वाऽपि सोऽन्नकालः प्रशस्यते ॥ २० ॥
अर्धरात्रेऽपि भुञ्जानः परमार्थं बुभुक्षितः ॥
क्षुधी वैद्यपरित्यागी व्याधिभिर्नाभिभूयते ॥ २१ ॥
अहिताशनसंपर्कात्सर्वरोगोद्भवो यतः ॥
अतस्तदहितं त्याज्यं न्याय्यं पथ्यनिषेवणम् ॥ २२ ॥
कलमाः शालयो रक्ता नीवारः षष्टिकाङ्गुकाः ॥ २३ ॥
श्यामाककोद्रवोद्दालसतीनयवमुद्गकाः ॥
मसूराढकिगोधूमा हरिणैणकुरङ्गकाः ॥ २४ ॥
तित्तिरिः क्रकरा लावाः श्रेष्ठा वर्तीरवर्तिकाः ॥
सुनिषण्णकवास्तूकचिल्लीमण्डूकपर्णिकाः ॥ २५ ॥
तण्डुलीयकजीवन्त्यो दाडिमामलकं मधु ॥
सैन्धवं गव्यमाज्यं च पथ्यवर्गोऽयमुत्तमः ॥ २६ ॥
623
व्यायामश्च निशास्वापो निवातोष्णजलं तथा ॥
आयुष्यं भोजनं जीर्णे वेगानामविधारणम् ॥
ब्रह्मचर्यमहिंसा च साहसानां च वर्जनम् ॥ २७ ॥
अन्नादष्टगुणं पिष्टं पिष्टादष्टगुणं पयः ॥ २८ ॥
पयसोऽष्टगुणं मांसं मांसादष्टगुणं घृतम् ॥
घृतादष्टगुणं तैलं मर्दने न तु भोजने ॥ २९ ॥
वल्लीफलैरम्लकुलत्थशाकैर्मत्स्यैः सुरामांसतिलैः करीरैः ॥
पिण्याकजम्बूलवणैश्च दध्ना व्यस्तैः समस्तैश्च पयो विरोधि ॥ ३० ॥
कपिञ्जलो लावकतित्तिरी तु गोधामयूरौ रुबुतैलकाष्ठैः ॥
सिद्धा विरुद्धाश्च तथा कपोतास्तैलेषु भृष्टा अपि सर्षपाक्ताः ॥ ३१ ॥
उष्णेन दिव्यसलिलेन वराहगोधा-
मांसेन याति विकृतिं मधु मूलकेन ॥
तक्रेण चोष्णमपि तुल्यघृतं धृतं च
कांस्ये दशाहमुषितं च तथा घृतं च ॥ ३२ ॥
घृतं धानाश्च तक्रेण दध्ना मद्यं च कुक्कुटैः ॥
बलाका न हिता मद्यैः सुराकृशरपायसैः ॥ ३३ ॥
624
मत्स्या उपोदका चैव विकारैरैक्षवैस्तथा ॥
सौवीरैस्तिलशष्कुल्यः काकमाची गुडेन च ॥
अतिस्निग्धातिरूक्षादीन्वर्जयेदात्मवान्नरः ॥ ३४ ॥
व्याधिमिन्द्रियदौर्बल्यं मरणं चाधिगच्छति ॥
विरुद्धरसवीर्याणि भुञ्जानोऽनात्मवान्नरः ॥ ३५ ॥
यत्किंचिद्दोषमुत्क्लेश्य भुक्तं कायान्न निर्हरेत् ॥
रसादिषु यथार्थं वा तद्विकाराय कल्पते ॥ ३६ ॥
विरुद्धाशनजान्रोगान्प्रतिहन्ति विरेचनम् ॥
वमनं शमनं चापि पूर्वं वा हितभोजनम् ॥ ३७ ॥
सात्म्यतोऽल्पतया वाऽपि दीप्ताग्नेस्तरुणस्य च ॥
स्निग्धव्यायामबलिनां विरुद्धं वितथं भवेत् ॥ ३८ ॥
शुष्कं मांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि ॥
प्रभाते मैथुनं निद्रा सद्यः प्राणहराणि षट् ॥ ३९ ॥
625
सद्योमांसं नवं चान्नं बाला स्त्री क्षीरभोजनम् ॥
घृतमुष्णोदकं चैव सद्यः प्राणकराणि षट् ॥ ४० ॥
शीते शीतानिलस्पर्शसंरुद्धो बलिनां बली ॥
पक्ता भवति हेमन्ते मात्राद्रव्यगुरुक्षमः ॥ ४१ ॥
626

No verses of the Siddhayoga on this page. The commentary Kusumāvali was not digitized.

627
स यदा नेन्धनं युक्तं लभते देहजं तदा ॥
रसं हिनस्त्यतो वायुः शीतः शीते प्रकुप्यति ॥ ४२ ॥
628
अभ्यङ्गोत्सादनं स्वेदः स्निग्धोष्णगुरुभोजनम् ॥ ४३ ॥
शीते सुसंवृतं सेव्यं यानं शयनमासनम् ॥
आलिङ्ग्यागुरुदिग्धाङ्गीं स्वप्याद्यौवनशालिनीम् ॥ ४४ ॥
629
शिशिरे सर्वमप्येवं निवातोष्णगृहं श्रयेत् ॥ ४५ ॥
वसन्ते निचितः श्लेष्मा दिनकृद्भाभिरीरितः ॥
कायाग्निं बाधते रोगांस्ततः प्रकुरुते बहून् ॥
तस्माद्वसन्ते कर्माणि वमनादीनि कारयेत् ॥ ४६ ॥
630

No verses of the Siddhayoga on this page. The commentary Kusumāvali was not digitized.

631

No verses of the Siddhayoga on this page. The commentary Kusumāvali was not digitized.

632
गुर्वम्लस्निग्धमधुरं दिवास्वप्नं च वर्जयेत् ॥ ४७ ॥
633

No verses of the Siddhayoga on this page. The commentary Kusumāvali was not digitized.

634

No verses of the Siddhayoga on this page. The commentary Kusumāvali was not digitized.

635
व्यायामोद्वर्तनं धूमं कबलग्रहमञ्जनम् ॥
सुखाम्बुना शौचविधिं शीलयेत्कुसुमागमे ॥
चन्दनागुरुदिग्धाङ्गो यवगोधूमभोजनः ॥ ४८ ॥
दिवा शीतपृहे निद्रां निशि चन्द्रांशुशीतले ॥
व्यजनैः पाणिसंस्पर्शैश्चन्दनोदकशीतलैः ॥ ४९ ॥
636
काननानि च शीतानि जलानि कुसुमानि च ॥
ग्रीष्मकाले निषेवेत मैथुनाद्विरतो नरः ॥ ५० ॥
आदानदुर्बले देहे पक्ता भवति दुर्बलः ॥
स वर्षास्वनिलादीनां दूषणैर्बाध्यते पुनः ॥ ५१ ॥
भूबाष्पान्मेघनिष्यन्दात्पाकादम्लाज्जलस्य च ॥
वर्षास्वग्निबले हीने कुप्यन्ति पवनादयः ॥
तस्मात्साधारणः सर्वो विधिर्वर्षासु चेष्यते ॥ ५२ ॥
637

No verses of the Siddhayoga on this page. The commentary Kusumāvali was not digitized.

638

No verses of the Siddhayoga on this page. The commentary Kusumāvali was not digitized.

639

No verses of the Siddhayoga on this page. The commentary Kusumāvali was not digitized.

640
अग्निं संरक्षता सेव्या यवगोधूमशालयः ॥
पुराणा जाङ्गलैर्मांसैर्भोज्या यूषैश्च संस्कृतैः ॥ ५३ ॥
641
भूबाष्पपरिहारार्थं शयीत च विहायसि ॥ ५४ ॥
उदमन्थं दिवास्वप्नमवश्यायं नदीजलम् ॥
व्यायाममातपं चैव व्यवायं चात्र वर्जयेत् ॥ ५५ ॥
वर्षासु संचितं पित्तं प्रायः शरदि कुप्यति ॥
642
तत्रान्नपानं मधुरं लघु शीतं च तिक्तकम् ॥
पित्तप्रशमनं सेव्यं रेचनं रक्तमोक्षणम् ॥ ५६ ॥
इक्षवः शालयो मुद्गाः सरोम्भः क्वथितं पयः ॥
शरद्येतानि पथ्यानि प्रदोषे चेन्दुरश्मयः ॥ ५७ ॥
वसां तैलमवश्यायमौदकानूपमामिषम् ॥
क्षारं दधि दिवास्वप्नं प्राग्वातं चात्र वर्जयेत् ॥ ५८ ॥
पृथक्पानं पुनर्दानं सामिषं पयसा निशि ॥
दन्तच्छेदनमौष्ण्यं च सप्त सक्तुषु वर्जयेत् ॥ ५९ ॥
643

No verses of the Siddhayoga on this page. The commentary Kusumāvali was not digitized.

644

No verses of the Siddhayoga on this page. The commentary Kusumāvali was not digitized.

645

No verses of the Siddhayoga on this page. The commentary Kusumāvali was not digitized.

646
रसासृङ्मांसमेदोस्थिमज्जशुक्राणि धातवः ॥
वातपित्तकफा दोषा विण्मूत्राद्या मला मताः ॥ ६० ॥
647

No verses of the Siddhayoga on this page. The commentary Kusumāvali was not digitized.

648
कफपित्तानिलाः पूर्वमध्यान्तेषु व्यवस्थिताः ॥
भुक्ताहोरात्रवयसां संधिष्वपि कफानिलौ ॥ ६१ ॥
649
कृशो रूक्षोऽल्पकेशश्च चलचित्तोऽनवस्थितः ॥
बहुवाग्व्योमगः स्वप्ने वातप्रकृतिको नरः ॥ ६२ ॥
अकालपलितो गौरः प्रस्वेदी कोपनो बुधः ॥
स्वप्नेषु दीप्तिमत्प्रेक्षी पित्तप्रकृतिको नरः ॥ ६३ ॥
स्थिरचित्तः सुबद्धाङ्गः सुप्रजः स्निग्धमूर्धजः ॥
स्वप्ने जलाशयालोकी श्लेष्मप्रकृतिको नरः ॥
संमिश्रैर्लक्षणैर्ज्ञेया द्वित्रि(त्र) दोषान्वया नराः ॥ ६४ ॥
बहूदकनगोऽनूपः कफमारुतरोगवान् ॥
जाङ्गलोऽल्पाम्बुशाखी च वातपित्तगदोत्तरः ॥ ६५ ॥
संसृष्टलक्षणोपेतो देशः साधारणः स्मृतः ॥ ६६ ॥
समाः साधारणे यस्माच्छीतवर्षोष्णमारुताः ॥
समता चैव दोषाणां तस्मात्साधारणो वरः ॥ ६७ ॥
क्षीरितिक्तकषायाणां द्वादशाङ्गुलमायतम् ॥
दन्तकाष्ठं निषेवेत मुखरोगप्रणाशनम् ॥ ६८ ॥
650
नवज्वरास्यशोषादौ न सेव्यं दन्तरोगिणा ॥
प्रतिपद्दर्शषष्ठीषु नवम्यां चैव भारत ॥ ६९ ॥
दन्तानां काष्ठसंयोगो दहत्यासप्तमं कुलम् ॥ ७० ॥
पत्रैः स्याद्बकुलादीनां तत्र दन्तप्रघर्षणम् ॥
जिह्वानिर्लेखनाद्रोगास्तद्गता न भवन्ति हि ॥ ७१ ॥
पित्तरक्तकृता रोगा न स्युर्व्यङ्गादयो मुखे ॥
भिल्लोटककषायेण धात्रीक्वाथेन धावनात् ॥ ७२ ॥
आमलकस्य कषायेण नेत्रे प्रक्षालयेत् । उभयं शीतोदकेन वा ॥ ७३ ॥
दृष्टिपरिमार्जनार्थं मुखस्य कान्त्यै त्रिदोषशमनाय ॥
सौवीराञ्जनमुक्तं लोचनयो रञ्जनं मुनिना ॥ ७४ ॥
शोभार्थमञ्जनं कृष्णं शलाकाभिर्यथेप्सितम् ॥
पक्ष्मलं विशदं कान्तममलोज्ज्वलमण्डलम् ॥
नेत्रमञ्जनसंयोगाद्भवेच्चामलतारकम् ॥ ७५ ॥
श्रान्ते प्ररुदिते चैव मद्यपीते नवज्वरे ॥
उष्णवेश्मनि दाहे च अञ्जनं नैव शस्यते ॥ ७६ ॥
651
निर्गदं निर्मलं चक्षुर्भवत्यञ्जनयोगतः ॥
प्रतिमर्शस्ततो देय ऊर्ध्वजत्रुगदापहः ॥ ७७ ॥
मुखशुद्धिश्च पूगादिकर्पूरसुमनःफलैः ॥ ७८ ॥
अभ्यङ्गोत्सादनस्नानगन्धमाल्यादिभूषितः ॥
पादत्रच्छत्रदण्डैश्च विचरेच्च यथासुखम् ॥ ७९ ॥
श्रोत्रघ्राणशिरःपादतैलनित्योऽथ धूमपः ॥ ८० ॥
652
पृष्ठतोऽर्कं निषेवेत जठरेण हुताशनम् ॥
स्वामिनं सर्वभावेन परलोकममायया ॥ ८१ ॥
राजन्हरीतकीं भक्ष तक्रं सलवणं पिब ॥
भुङ्क्ष्व वास्तुकशाकेन नश्यन्तु तव तेन ते ॥ ८२ ॥
न वेगान्धारयेन्निद्रावातविण्मूत्ररेतसाम् ॥
जृम्भाबाष्पक्षवोद्गारश्वासतृष्णावमिक्षुधाम् ॥ ८३ ॥
धारितेषु प्रजायन्ते तन्मार्गस्थानजा गदाः ॥ ८४ ॥
धार्या वेगास्त्वशस्तानां मनोवाक्कायकर्मणाम् ॥
न पीडयेदिन्द्रियाणि न चैतान्यतिलालयेत् ॥ ८५ ॥
653
अनुयायात्प्रतिपदं सर्वधर्मेषु मध्यमाम् ॥
सेवेत विषयान्काले त्यक्त्वा तत्परतां वशी ॥ ८६ ॥
नातिजागरणं निद्रां सर्वभूतहितैषिताम् ॥
देवगोब्राह्मणाचार्यगुरुवृद्धान्सदाऽर्चयेत् ॥ ८७ ॥
चतुष्पथे नमस्कर्ता दाता यश्च प्रियंवदः ॥
क्रुद्धानामनुनेता च दीनानामनसूयकः ॥ ८८ ॥
आश्वासकश्च भीतानां बन्धुवत्सर्वदेहिनाम् ॥
रागद्वेषनिदानानां हन्ता धर्मपरायणः ॥ ८९ ॥
नित्यं हिताहारविहारसेवी समीक्ष्यकारी विषयेष्वसक्तः ॥
दाता समः सत्यपरः क्षमावानाप्तोपसेवी च भवत्यरोगः ॥
शिरश्च पादौ च सदाऽर्चयेद्यः स्त्रियं श्रियं नाभिलषेत्परस्य ॥ ९० ॥
न कुर्याच्चञ्चलं चेतो न कालमतिपातयेत् ॥ ९१ ॥
प्रणयेनापि नो वाच्यं वचनं परतापि च ॥
अहिंसा सततं कार्या धार्या चित्तस्य नित्यता ॥ ९२ ॥