655
आयुष्मान्सत्त्ववान्साध्यो द्रव्यवानात्मवानपि ॥
उच्यते व्याधितः पादो वैद्यवाक्यकृदास्तिकः ॥ ४ ॥
प्रशस्तदेशसंभूतं प्रशस्तेऽहनि चोद्धृतम् ॥
अल्पमात्रं महावीर्यं गन्धवर्णरसान्वितम् ॥ ५ ॥
दोषघ्नमग्लानिकरमविकारि विपर्यये ॥
समीक्ष्य काले दत्तं च भेषजं पाद उच्यते ॥ ६ ॥
स्निग्धोऽजुगुप्सुर्बलवान्युक्तो व्याधितरक्षणे ॥
वैद्यवाक्यकृदश्रान्तः पादः परिचरः स्मृतः ॥ ७ ॥
स्वदेशे निचिता दोषा अन्यस्मिन्कोपमागताः ॥
बलवन्तस्तथा न स्युर्जलजा वा स्थलाहृताः ॥ ८ ॥
उचिते वर्तमानस्य नास्ति देशकृतं भयम् ॥
आहारस्वप्नचेष्टादौ तद्देशस्य गुणे सति ॥ ९ ॥