Adhikāra 9

नोद्रिक्तमादौ संग्राह्यमश्नतो बलिनस्तु यत् ॥
हृत्पाण्डुग्रहणीरोगप्लीहगुल्मज्वरादिकृत् ॥ १ ॥
ऊर्ध्वं प्रवृत्तदोषस्य पूर्वं लोहितपित्तिनः ॥
अक्षीणबलमांसाग्नेः कर्तव्यमपतर्पणम् ॥ २ ॥
129
पथ्यं सतीनयूषेण ससितैर्लाजसक्तुभिः ॥
ऊर्ध्वगे रेचनं पूर्वमधोगे वमनं हितम् ॥ ३ ॥
त्रिवृतात्रिफलाश्यामापिप्पलीशर्करामधु ॥
मोदकः संनिपातोत्थरक्तपित्तज्वरापहः ॥ ४ ॥
मुस्तेन्द्रयवयष्ट्याह्वमदनाढ्यं पयोमधु ॥
शिशिरं वमनं योज्यं रक्तपित्तहरं परम् ॥ ५ ॥
130
शालिपर्ण्यादिना सिद्धा पेया पूर्वमधोगते ॥
रक्तातीसारहन्ता च योज्यो विधिरशेषतः ॥ ६ ॥
क्षीणमांसबलं बालं वृद्धं शोषसमन्वितम् ॥
अवम्यमविरेच्यं च स्तम्भनैः समुपाचरेत् ॥ ७ ॥
वृषपत्राणि निष्पीड्य रसं समधुशर्करम् ॥
पिबेत्तेन शमं याति रक्तपित्तं सुदारुणम् ॥ ८ ॥
आटरूषकनिर्यूहे प्रियंगुं मृत्तिकाञ्जने ॥
विनीय लोध्रं सक्षौद्रं रक्तपित्तहरं पिबेत् ॥ ९ ॥
वासाकषायोत्पलमृत्प्रियंगुलोध्राञ्जनाम्भोरुहकेसराणि ॥
पीत्वा सिताक्षौद्रयुतानि जह्यात्पित्तासृजो वेगमुदीर्णमाशु ॥ १० ॥
वासायां विद्यमानायामाशायां जीवितस्य च ॥
रक्तपित्ती क्षयी कासी किमर्थमवसीदति ॥ ११ ॥
131
तालीसचूर्णयुक्तः पेयः क्षौद्रेण वासकस्वरसः ॥
कफपित्तकासतमकश्वासस्वरभेदरक्तपित्तहरः ॥ १२ ॥
आटरूषकमृद्वीकापथ्याक्वाथः सशर्करः ॥
क्षौद्राढ्यः कसनश्वासरक्तपित्तनिबर्हणः ॥ १३ ॥
समाक्षिकः फल्गुफलोद्भवो वा पीतो रसः शोणितमाशु हन्ति ॥ १४ ॥
चन्दनेन्द्रयवाः पाठा कटुका सदुरालभा ॥
गुडुची वासकं लोध्रं पिप्पलीक्षौद्रसंयुतम् ॥
कफान्वितं जयेद्रक्तं कुष्ठकासज्वरापहम् ॥ १५ ॥
कषायैर्विविधैर्योगैर्दीप्तेऽग्नौ विजिते कफे ॥
रक्तपित्तं न चेच्छाम्येत्तत्र वातोल्बणे पयः ॥ १६ ॥
छागं पयः स्यात्परमं प्रयोगे गवां शृतं पञ्चगुणे जले वा ॥
सशर्करं माक्षिकसंप्रयुक्तं विदारिगन्धादिगणे शृतं वा ॥ १७ ॥
द्राक्षया पर्णिनीभिर्वा बलया मधुकेन वा ॥
श्वदंष्ट्रया शतावर्या रक्तजित्साधितं पयः ॥ १८ ॥
पक्वोदुम्बरकाश्मर्यपथ्याखर्जूरगोस्तनाः ॥
मधुना घ्नन्ति संलीढा रक्तपित्तं पृथक्पृथक् ॥ १९ ॥
132
खदिरस्य प्रियंगूणां कोविदारस्य शाल्मलेः ॥
पुष्पचूर्णं तु मधुना लिहन्नारोग्यमश्नुते ॥ २० ॥
लिहेत्तथा वास्तुकबीजचूर्णं क्षौद्रान्वितं तण्डुलजाह्वयं वा ॥
लिह्याच्च लाजाञ्जनचूर्णमेकमेवं सिताक्षौद्रयुतां तुगाख्याम् ॥ २१ ॥
वासकस्वरसे पथ्या सप्तधा परिभाविता ॥
कृष्णा वा मधुना लीढा रक्तपित्तं द्रुतं जयेत् ॥ २२ ॥
द्रवेण यावता चूर्णमेकीभूयाऽऽर्द्रतां व्रजेत् ॥
तावत्प्रमाणं निर्दिष्टं भिषग्भिर्भावनाविधौ ॥ २३ ॥
अभया मधुना युक्ता पाचनी दीपनी मता ॥
श्लेष्माणं रक्तपित्तं च हन्ति शूलातिसारनुत् ॥ २४ ॥
लोहगन्धिनि निश्वास उद्गारे धूमगन्धिनि ॥
पृथ्वीकां शाणमात्रां च खादेद्द्विगुणशर्कराम् ॥ २५ ॥
133
एलापत्रत्वचोऽर्धाक्षाः पिप्पल्यर्धपलं तथा ॥
सितामधुकखर्जूरमृद्वीकाश्च पलोन्मिताः ॥ २६ ॥
संचूर्ण्य मधुसंयुक्ता गुटिकाः संप्रकल्पयेत् ॥
अक्षमात्रां ततश्चैकां भक्षयेत्तां दिने दिने ॥ २७ ॥
कासं श्वासं ज्वरं हिक्कां छर्दिं मूर्छां मदं भ्रमम् ॥
रक्तनिष्ठीवनं तृष्णां पार्श्वशूलमरोचकम् ॥ २८ ॥
शोषं प्लीहाढ्यवातांश्च स्वरभेदं क्षतक्षयम् ॥
गुटिका तर्पणी वृष्या रक्तपित्तं च नाशयेत् ॥ २९ ॥
नासाप्रवृत्तरुधिरं घृतभृष्टं श्लक्ष्णपिष्टमामलकम् ॥
सेतुरिव तोयवेगं रुणद्धि मूर्ध्नि प्रलेपेन ॥ ३० ॥
घ्राणप्रवृत्ते जलमाशु देयं सशर्करं नासिकया पयो वा ॥
द्राक्षारसं क्षीरघृतं पिबेद्वा सशर्करं चेक्षुरसं हिमं वा ॥ ३१ ॥
134
नस्यं दाडिमपुष्पोत्थो रसो दूर्वाभवोऽथवा ॥
आम्रास्थिजः पलाण्डोर्वा नासिकास्रुतरक्तजित् ॥
मेढ्रगेऽतिप्रवृत्ते तु बस्तिरुत्तरसंज्ञितः ॥ ३२ ॥
सच्छागदुग्धश्च सशर्करश्च रसो हितो दाडिमपुष्पजश्च ॥ ३३ ॥
शृतं क्षीरं पिबेद्वाऽपि पञ्चमूल्या तृणाह्वया ॥
दूर्वासोत्पलकिञ्जल्कमञ्जिष्ठा सैलवालुका ॥ ३४ ॥
सितासितमुशीरं च मुस्तचन्दनपद्मकैः ॥
विपचेत्कार्षिकैरेतैः सर्पिराजं सुखाग्निना ॥ ३५ ॥
तण्डुलाम्बु त्वजाक्षीरं दत्त्वा चैव चतुर्गुणम् ॥
तत्पानं वमतो रक्तं नावनं नासिकागते ॥ ३६ ॥
कर्णाभ्यां यस्य गच्छेत्तु तस्य कर्णौ प्रपूरयेत् ॥
चक्षुःस्राविणि रक्ते च पूरयेत्तेन चक्षुषी ॥ ३७ ॥
मेढ्रपायुप्रवृत्ते च वस्तिकर्मसु तद्धितम् ॥
रोमकूपप्रवृत्ते च तदभ्यङ्गे प्रयोजयेत् ॥ ३८ ॥
135
वासां सशाखां सपलाशमूलां कृत्वा कषायं कुसुमानि चास्याः ॥
प्रदाय कल्कं विपचेद्घृतं तु सक्षौद्रमाश्वेव निहन्ति रक्तम् ॥ ३९ ॥
शणस्य कोविदारस्य वृषस्य ककुभस्य च ॥
कल्काढ्यत्वात्प्रशंसन्ति पुष्पकल्कं चतुष्पलम् ॥ ४० ॥
शतावरीदाडिमतित्तिडीककाकोलिमेदे मधुकं विदारीम् ॥
पिष्ट्वा च मूलं फलपूरकस्य घृतं पचेत्क्षीरचतुर्गुणं च ॥
कासज्वरानाहविबन्धशूलं तद्रक्तपित्तं च घृतं निहन्ति ॥ ४१ ॥
शतावर्यास्तु मूलानां रसप्रस्थद्वयं मतम् ॥ ४२ ॥
तत्समं च भवेत्क्षीरं घृतप्रस्थं विपाचयेत् ॥
जीवकर्षभकौ मेदा महामेदा तथैव च ॥ ४३ ॥
काकोली क्षीरकाकोली मृद्वीका मधुकं तथा ॥
मुद्गपर्णी माषपर्णी विदारी रक्तचन्दनम् ॥ ४४ ॥
शर्करामधुसंयुक्तं सिद्धं विस्रावयेद्भिषक् ॥
रक्तपित्तविकारेषु वातरक्तगदेषु च ॥ ४५ ॥
136
क्षीणशुक्रे च दातव्यं वाजीकरणमुत्तमम् ॥
अंसदाहं शिरोदाहं ज्वरं पित्तसमुद्भवम् ॥ ४६ ॥
योनिशूलं च दाहं च मूत्रकृच्छ्रं च पैत्तिकम् ॥
एतान्रोगान्निहन्त्याशु च्छन्नाभ्रमिव मारुतः ॥ ४७ ॥
शतावरीसर्पिरिदं बलवर्णाग्निवर्धनम् ॥
शतावरीघृते चास्मिञ्शर्करामधु पादिकम् ॥
मध्वेव पादिकं देयं वासासर्पिषि संमतम् ॥ ४८ ॥
कुष्माण्डकात्पलशतं सुस्विन्नं निष्कुलीकृतम् ॥ ४९ ॥
पचेत्तदा घृतप्रस्थे शनैस्ताम्रमये दृढे ॥
यदा मधुनिभः पाकस्तदा खण्डशतं न्यसेत् ॥ ५० ॥
पिप्पलीशृङ्गवेराभ्यां द्वे पले जीरकस्य च ॥
त्वगेलापत्रमरिचधान्यकानां पलार्धकम् ॥ ५१ ॥
न्यसेच्चूर्णीकृतं तत्र दर्व्या संघट्टयेत्तदा ॥
लेहीभूते सुशीते च दद्यात्क्षौद्रं घृतार्धकम् ॥ ५२ ॥
तद्यथाग्निबलं खादेद्रक्तपित्ती क्षतक्षयी ॥
कासश्वासतमश्छर्दितृष्णाज्वरनिपीडितः ॥ ५३ ॥
वृष्यं पुनर्नवकरं बलवर्णप्रसादनम् ॥
उरःसंधानकरणं बृंहणं स्वरबोधनम् ॥ ५४ ॥
अश्विभ्यां निर्मितं श्रेष्ठं कूष्माण्डकरसायनम् ॥
खण्डकामलकीन्यायाद्रसप्रस्थद्वयोक्तितः ॥ ५५ ॥
खण्डकूष्माण्डके पात्रं स्विन्नकूष्माण्डकद्रवात् ॥
अन्यत्र खण्डकूष्माण्डात्संमतः सकलो रसः ॥
युक्तसर्पिषि कूष्माण्डे पाको गन्धेन मुद्रया ॥ ५६ ॥
137
पञ्चाशच्च पलं स्विन्नकूष्माण्डात्प्रस्थमाज्यतः ॥ ५७ ॥
पक्वं पलशतं खण्डं वासाक्वाथाढके पचेत् ॥
शुभाधात्रीघनाभार्ङ्गीत्रिसुगन्धैश्च कार्षिकैः ॥ ५८ ॥
ऐलेयविश्वधान्याकमरिचैश्च पलांशकैः ॥
पिप्पलीकुडवं चैव मधुमानीं प्रदापयेत् ॥ ५९ ॥
138
कासं श्वासं क्षयं हिक्कां रक्तपित्तं हलीमकम् ॥
हृद्रोगमम्लपित्तं च पीनसं च व्यपोहति ॥ ६० ॥
तुलामादाय वासायाः पचेदष्टगुणे जले ॥
तेन पादावशेषेण पाचयेदाढकं भिषक् ॥ ६१ ॥
चूर्णानामभयानां तु खण्डाच्छुद्धाच्छतं तथा ॥
द्वे पले पिप्पलीचूर्णात्सिद्धशीते च माक्षिकात् ॥ ६२ ॥
कुडवं पलमानं च चातुर्जातं सुचूर्णितम् ॥
क्षिप्त्वा विलोडितं खादेद्रक्तपित्ती यथाबलम् ॥ ६३ ॥
कासश्वासगृहीतश्च यक्ष्मणा च निपीडितः ॥ ६४ ॥
शतावरी छिन्नरुहा वृषो मुण्डितिका बला ॥ ६५ ॥
तालमूली च गायत्री त्रिफलायास्त्वचस्तथा ॥
भार्ङ्गी पुष्करमूलं च पृथक्पञ्च पलानि च ॥ ६६ ॥
जलद्रोणे विपक्तव्यमष्टभागावशेषितम् ॥
दिव्यौषधिहतस्यापि माक्षिकेण हतस्य च ॥ ६७ ॥
पलद्वादशकं देयं रुक्मलोहस्य चूर्णितम् ॥
खण्डतुल्यं घृतं देयं पलषोडशकं बुधैः ॥ ६८ ॥
139
पचेत्ताम्रमये पात्रे गुडपाको मतो यथा ॥
प्रस्थार्धं मधुनो देयं शुभाश्मजतुकं त्वचम् ॥ ६९ ॥
शृङ्गी विडङ्गं कृष्णा च शुण्ठ्यजाजी पलं मतम् ॥
त्रिफला धान्यकं पत्रं द्व्यक्षं मरिचकेसरम् ॥ ७० ॥
चूर्णं दत्त्वा सुमथितं स्निग्धभाण्डे निवासयेत् ॥
यथाकालं प्रयुञ्जीत बिडालपदकं ततः ॥ ७१ ॥
गव्यक्षीरानुपानं च सेव्यं मांसरसं पयः ॥
गुरुवृष्यान्नपानानि स्निग्धमांसादि बृंहणम् ॥ ७२ ॥
रक्तपित्तं क्षयं कासं पक्तिशूलं विशेषतः ॥
वातरक्तं प्रमेहं च शीतपित्तं वमिं क्लमम् ॥ ७३ ॥
श्वयथुं पाण्डुरोगं च कुष्ठं प्लीहोदरं तथा ॥
आनाहं मूत्रसंस्रावमम्लपित्तं निहन्ति च ॥ ७४ ॥
चक्षुष्यं बृंहणं वृष्यं माङ्गल्यं प्रीतिवर्धनम् ॥
आरोग्यपुत्रदं श्रेष्ठं कायाग्निबलवर्धनम् ॥ ७५ ॥
श्रीकरं लाघवकरं खण्डखाद्यं प्रकीर्तितम् ॥
छागं पारावतं मांसं तित्तिरिः क्रकरः शशः ॥ ७६ ॥
कुलिङ्गाः कृष्णसाराश्च तेषां मांसानि योजयेत् ॥
नारिकेलपयःपानं सुनिषण्णकवास्तुकम् ॥ ७७ ॥
शुष्कमूलकजीवाख्यं पटोलं बृहतीफलम् ॥
फलं वार्ताकपक्वाम्रं खर्जूरं स्वादुदाडिमम् ॥ ७८ ॥
ककारपूर्वकं यच्च मांसं चानूपसंभवम् ॥
वर्जनीयं विशेषेण खण्डखाद्यं प्रकुर्वता ॥ ७९ ॥
140
यच्च पित्तज्वरे प्रोक्तं बहिरन्तश्च भेषजम् ॥
रक्तपित्ते हितं तच्च क्षतक्षीणहितं च यत् ॥ ८० ॥
शालिषष्टिकगोधूमचणमुद्गमसूरिकाः ॥
श्यामाकाश्च प्रियंग्वश्च भोजनं रक्तपित्तिनः ॥ ८१ ॥
पटोलनिम्बवेत्राग्रतण्डुलीयादयो हिताः ॥
पारावतकपोताद्याः शशैणहरिणास्तथा ॥ ८२ ॥
वृषस्य स्वरसं कृत्वा द्रव्यैरेभिः प्रयोजयेत् ॥
प्रियंगुमृत्तिकालोध्रमञ्जनं चेति चूर्णयेत् ॥ ८३ ॥
एतच्चूर्णं पाययेत्तद्रसैः क्षौद्रसमन्वितैः ॥
नासिकामुखपायुभ्यो यानि मेढ्राच्च वेगितम् ॥ ८४ ॥
रक्तपित्तं स्रवद्धन्ति सिद्ध एष प्रयोगराट् ॥
यच्च शस्त्रक्षतेनैव रक्तं तिष्ठति वेगितम् ॥
तदप्यनेन चूर्णेन तिष्ठत्येवावचूर्णितम् ॥ ८५ ॥
141
सामान्योदितयोगेषु द्रव्यशक्तिं समीक्ष्य हि ॥
प्रयोज्यो रक्तपित्तादौ योगो वातादिजे गदे ॥ ८६ ॥