139
पचेत्ताम्रमये पात्रे गुडपाको मतो यथा ॥
प्रस्थार्धं मधुनो देयं शुभाश्मजतुकं त्वचम् ॥ ६९ ॥
शृङ्गी विडङ्गं कृष्णा च शुण्ठ्यजाजी पलं मतम् ॥
त्रिफला धान्यकं पत्रं द्व्यक्षं मरिचकेसरम् ॥ ७० ॥
चूर्णं दत्त्वा सुमथितं स्निग्धभाण्डे निवासयेत् ॥
यथाकालं प्रयुञ्जीत बिडालपदकं ततः ॥ ७१ ॥
गव्यक्षीरानुपानं च सेव्यं मांसरसं पयः ॥
गुरुवृष्यान्नपानानि स्निग्धमांसादि बृंहणम् ॥ ७२ ॥
रक्तपित्तं क्षयं कासं पक्तिशूलं विशेषतः ॥
वातरक्तं प्रमेहं च शीतपित्तं वमिं क्लमम् ॥ ७३ ॥
श्वयथुं पाण्डुरोगं च कुष्ठं प्लीहोदरं तथा ॥
आनाहं मूत्रसंस्रावमम्लपित्तं निहन्ति च ॥ ७४ ॥
चक्षुष्यं बृंहणं वृष्यं माङ्गल्यं प्रीतिवर्धनम् ॥
आरोग्यपुत्रदं श्रेष्ठं कायाग्निबलवर्धनम् ॥ ७५ ॥
श्रीकरं लाघवकरं खण्डखाद्यं प्रकीर्तितम् ॥
छागं पारावतं मांसं तित्तिरिः क्रकरः शशः ॥ ७६ ॥
कुलिङ्गाः कृष्णसाराश्च तेषां मांसानि योजयेत् ॥
नारिकेलपयःपानं सुनिषण्णकवास्तुकम् ॥ ७७ ॥
शुष्कमूलकजीवाख्यं पटोलं बृहतीफलम् ॥
फलं वार्ताकपक्वाम्रं खर्जूरं स्वादुदाडिमम् ॥ ७८ ॥
ककारपूर्वकं यच्च मांसं चानूपसंभवम् ॥
वर्जनीयं विशेषेण खण्डखाद्यं प्रकुर्वता ॥ ७९ ॥