140
यच्च पित्तज्वरे प्रोक्तं बहिरन्तश्च भेषजम् ॥
रक्तपित्ते हितं तच्च क्षतक्षीणहितं च यत् ॥ ८० ॥
शालिषष्टिकगोधूमचणमुद्गमसूरिकाः ॥
श्यामाकाश्च प्रियंग्वश्च भोजनं रक्तपित्तिनः ॥ ८१ ॥
पटोलनिम्बवेत्राग्रतण्डुलीयादयो हिताः ॥
पारावतकपोताद्याः शशैणहरिणास्तथा ॥ ८२ ॥
वृषस्य स्वरसं कृत्वा द्रव्यैरेभिः प्रयोजयेत् ॥
प्रियंगुमृत्तिकालोध्रमञ्जनं चेति चूर्णयेत् ॥ ८३ ॥
एतच्चूर्णं पाययेत्तद्रसैः क्षौद्रसमन्वितैः ॥
नासिकामुखपायुभ्यो यानि मेढ्राच्च वेगितम् ॥ ८४ ॥
रक्तपित्तं स्रवद्धन्ति सिद्ध एष प्रयोगराट् ॥
यच्च शस्त्रक्षतेनैव रक्तं तिष्ठति वेगितम् ॥
तदप्यनेन चूर्णेन तिष्ठत्येवावचूर्णितम् ॥ ८५ ॥