142
धान्याकपिप्पलीविश्वदशमूलीजलं पिबेत् ॥
पार्श्वशूलज्वरश्वासपीनसादिनिवृत्तये ॥ ४ ॥
अश्वगन्धामृताभीरुदशमूलीबलावृषाः ॥
पुष्करातिविषे घ्नन्ति क्षयं क्षीररसाशिनः ॥ ५ ॥
दशमूलीबलारास्नापुष्करैः सुरदारुभिः ॥
नागरैः क्वथितं पेयं क्षयकासादिशान्तये ॥ ६ ॥
ककुभत्वङ्नागबलावानरिबीजानि चूर्णितं पयसि ॥
पक्वं मधुघृतयुक्तं ससितं यक्ष्मादिकासहरम् ॥ ७ ॥
मधुताप्यविडङ्गाश्मजतुलोहघृतामयाः ॥
घ्नन्ति यक्ष्माणमत्युग्रं सेव्यमाना हिताशिना ॥ ८ ॥
कृष्णाद्राक्षासितालेहः क्षयहा क्षौद्रतैलवान् ॥
मधुसर्पिर्युतो वाऽश्वगन्धाकृष्णासितोद्भवः ॥ ९ ॥
शर्करामधुसंयुक्तं नवनीतं लिहन्क्षयी ॥
क्षीराशी लभते पुष्टिमतुल्ये वाऽऽज्यमाक्षिके ॥ १० ॥