152
घृतं बलानागबलार्जुनाम्बुसिद्धं सयष्टीमधुपादकल्कम् ॥
हृद्रोगशूलक्षतरक्तपित्तशोषानिलासृक्शमयत्युदीर्णम् ॥ ७९ ॥
हितमत्र विशेषेण खण्डकूष्माण्डसंज्ञितम् ॥ ८० ॥
शुक्रायत्तं बलं पुंसां मलायत्तं हि जीवितम् ॥
तस्माद्यत्नेन संरक्षेद्यक्ष्मिणो मलरेतसी ॥ ८१ ॥
नित्यं स्वदेहपूजी भक्तो भैषज्यदेवतागुरुषु ॥
छागं मांसपयोऽश्नञ्जीवति यक्ष्मी चिरं धृतिमान् ॥ ८२ ॥
उपद्रवांश्च स्वरवैकृतादीञ्जयेद्यथास्वं प्रसमीक्ष्य शास्त्रम् ॥
शोकं स्त्रियः क्रोधमसूयनं च त्यजे-
दुदारान्विषयान्भजेच्च ॥
गुरून्द्विजातींस्त्रिदशांश्च पूजये-
त्कथाश्च पुण्याः शृणुयाद्द्विजेभ्यः ॥ ८३ ॥
कासातिसारपार्श्वार्तिस्वरभेदारुचिज्वरैः ॥
त्रिभिर्वा पीडितं लिङ्गैः श्वासकासासृगामयैः ॥ ८४ ॥
भक्तद्वेषो ज्वरः श्वासः कासः शोणितदर्शनम् ॥
स्वरभेदश्च जायेत षड्रूपे राजयक्ष्मणि ॥ ८५ ॥