Adhikāra 12

160
कोलमज्जाञ्जनं लाजातिक्ताकाञ्चनगैरिकम् ॥
कृष्णा धात्री सिता शुण्ठी कासीसं दधिनाम च ॥ १ ॥
पाटल्याः सफलं पुष्पं कृष्णा खर्जूरमुस्तकम् ॥
षडेते पादिका लेहा हिक्काघ्ना मधुसंयुताः ॥ २ ॥
मधुकं मधुसंयुक्तं पिप्पली शर्करान्विता ॥
नागरं गुडसंयुक्तं हिक्काघ्नं नावनत्रयम् ॥ ३ ॥
स्तन्येन मक्षिकाविष्ठा नस्यं वाऽलक्तकाम्बुना ॥
योज्यं हिक्काभिभूताय स्तन्यं वा चन्दनान्वितम् ॥ ४ ॥
मधुसौवर्चलोपेतं मातुलुङ्गरसं पिबेत् ॥
हिक्कार्तो मधुना लिह्याच्छुण्ठीधात्रीकणान्वितम् ॥ ५ ॥
कृष्णामलकशुण्ठीनां चूर्णं मधुसितायुतम् ॥
मुहुर्मुहुः प्रयोक्तव्यं हिक्काश्वासनिवारणम् ॥ ६ ॥
प्राणावरोधतर्जनविस्मापनशीतवारिपरिषेकैः ॥
चित्रैः कथाप्रयोगैः शमयेद्धिक्कां मनोभिघातैश्च ॥ ७ ॥
हिक्काश्वासातुरे पूर्वं तैलाक्ते स्वेद इष्यते ॥
ऊर्ध्वाधः शोधनं शक्ते दुर्बले शमनं मतम् ॥ ८ ॥
161
हिक्काश्वासी पिबेद्भार्ङ्गीं सविश्वामुष्णवारिणा ॥
नागरं वा सिताभार्ङ्गीसौवर्चलसमन्वितम् ॥ ९ ॥
अभयानागरकल्कं पुष्करयवशूकमरिचकल्कं वा ॥
तोयेनोष्णेन पिबेद्धिक्की श्वासी च तच्छान्त्यै ॥ १० ॥
तृषितो दशमूलस्य क्वाथं वा देवदारुणः ॥
मदिरां वा पिबेद्युक्त्या हिक्काश्वासप्रपीडितः ॥ ११ ॥
शृङ्गीकटुत्रिकफलत्रिककण्टकारीभार्ङ्गीसपुष्करजटा लवणानि पञ्च ॥
चूर्णं पिबेदशिशिरेण जलेन हिक्काश्वासोर्ध्ववातकसनारुचिपीनसेषु ॥ १२ ॥
शठीचोरकजीवन्तीत्वङ्मुस्तं पुष्कराह्वयम् ॥
सुरसस्तामलक्येलापिप्पल्यगुरुनागरम् ॥ १३ ॥
वालकं च समं चूर्णं कृत्वाऽष्टगुणशर्करम् ॥
सर्वदा तमके श्वासे हिक्कायां च प्रयोजयेत् ॥ १४ ॥
कासमर्दकपत्राणां यूषः सौभाञ्जनस्य च ॥
शुष्कमूलकयूषश्च हिक्काश्वासनिवारणः ॥ १५ ॥
यत्किंचित्कफवातघ्नमुष्णं वातानुलोमनम् ॥
भेषजं पानमन्नं वा हिक्काश्वासेषु तद्धितम् ॥ १६ ॥
अमृतानागरफञ्जीव्याघ्रीपर्णाससाधितः क्वाथः ॥
पीतः सकणाचूर्णः कासश्वासौ जयत्याशु ॥ १७ ॥
162
सनागराभयातुल्या कासश्वासौ व्यपोहति ॥
दशमूलीकषायश्च पुष्करेणावचूर्णितः ॥ १८ ॥
कासश्वासप्रशमनः पार्श्वहृच्छूलनाशनः ॥
कुलत्थनागरव्याघ्रीवासाभिः क्कथितं जलम् ॥
पीतं पुष्करसंयुक्तं श्वासकासनिवारणम् ॥ १९ ॥
गुडं कटुकतैलेन मिश्रयित्वा समं लिहेत् ॥
त्रिसप्ताहप्रयोगेण श्वासं निर्मूलतो जयेत् ॥ २० ॥
द्राक्षाहरीतकीकृष्णाकर्कटाख्यादुरालभाः ॥
विलिहन्मधुसर्पिर्भ्यां श्वासान्हन्ति सुदारुणान् ॥ २१ ॥
हिंस्राविडङ्गपूतीकत्रिफलाव्योषचित्रकैः ॥ २२ ॥
द्विक्षीरं सर्पिषः प्रस्थं चतुर्गुणजलान्वितम् ॥
कोलमात्रैः पचेत्तद्धि श्वासकासौ व्यपोहति ॥ २३ ॥
अर्शांस्यरोचकं गुल्मं शकृद्भेदं क्षयं तथा ॥
कोलस्थानेऽत्र कर्षः स्यादन्यतोदृष्टहेतुना ॥ २४ ॥
शतं गृहीत्वा भार्ङ्ग्यास्तु दशमूल्यास्तथा परम् ॥
शतं हरीतकीनां च पचेत्तोये चतुर्गुणे ॥ २५ ॥
163
पादावशेषे तस्मिंस्तु रसे वस्त्रपरिस्रुते ॥
आलोड्य च तुलां पूतां गुडस्य त्वभयां ततः ॥ २६ ॥
पुनः पचेच्च मृद्वग्नौ यावल्लेहत्वमागतम् ॥
शीते च मधुनश्चात्र षट्पलानि प्रदापयेत् ॥ २७ ॥
त्रिकटु त्रिसुगन्धं च पालिकं च पृथक्पृथक् ॥
कर्षद्वयं यवक्षारं संचूर्ण्य प्रक्षिपेत्ततः ॥ २८ ॥
भक्षयेदभयामेकां लेहस्यार्धपलं लिहेत् ॥
श्वासं सुदारुणं हन्ति कासं पञ्चविधं तथा ॥ २९ ॥
स्वरवर्णप्रदो लेहो जठराग्निप्रदीपनः ॥
हरीतकीशतैकस्य वारिप्रस्थमिहाधिकम् ॥ ३० ॥
कुलत्थो दशमूलं च तथैव द्विजयष्टिका ॥
शतं शतं च संगृह्य जलद्रोणे विपाचयेत् ॥ ३१ ॥
पादावशेषे तस्मिंस्तु गुडस्यार्धतुलां क्षिपेत् ॥
शीतीभूते च पक्वे च मधुनोऽष्टौ पलानि च ॥ ३२ ॥
षट्पलानि तुगाक्षीर्याः पिप्पल्याश्च पलद्वयम् ॥
त्रिसुगन्धिसुगन्धं तं खादेदग्निबलं प्रति ॥ ३३ ॥
कासं श्वासं ज्वरं हिक्कां नाशयेत्तमकं तथा ॥
योगसंदर्शनादत्र वृद्धवैद्योपदेशतः ॥ ३४ ॥
जलं चतुर्गुणं देयमल्पत्वाद्द्रोणवारिणः ॥
मानसांनिध्यसंवादाद्द्विपलं त्रिसुगन्धिनः ॥ ३५ ॥