167
चूर्णं यदुक्तमथवाऽनिलजे तदेव
सर्वैश्च सर्वकृतमेवमुपक्रमेत ॥ २ ॥
बस्तिं समीरणे पित्ते विरेकं वमनं कफे ॥
कुर्याद्धृद्यानुकूलानि हर्षणं च मनोघ्नजे ॥ ३ ॥
इच्छाविनाशभयजेषु तु बाधकेषु
भावान्भवाय वितरेत्खलु शक्यरूपान् ॥
अर्थेषु चातिपतितेषु पुनर्भवाय पौराणिकैः श्रुतिपथैरनुमानयेत्तम् ॥ ४ ॥