168
सात्म्यान्स्वदेशचरितान्विविधांश्च भक्ष्या-
न्पानानि मूलफलखाडवरागलेहान् ॥
सेवेद्रसांश्च विविधान्विविधैः प्रयोगै-
र्भुञ्जीत चापि लघुरूक्षमनःसुखानि ॥ ५ ॥
अम्लिका गुडतोयं च त्वगेलामरिचान्वितम् ॥
अभक्तच्छन्दरोगेषु शस्तं कवलधारणम् ॥ ६ ॥
कुष्ठसौवर्चलाजाजीशर्करामरिचं बिडम् ॥ ७ ॥
धात्र्येलापद्मकोशीरपिप्पलीचन्दनोत्पलम् ॥
लोध्रं तेजोवती पथ्या त्र्यूषणं सयवाग्रजम् ॥ ८ ॥
आर्द्रदाडिमनिर्यासश्चाजाजीशर्करायुतम् ॥
सतैलमाक्षिकाश्चैते चत्वारः कवलग्रहाः ॥
चतुरोऽरोचकान्हन्युर्वाताद्येकजसर्वजान् ॥ ९ ॥
त्रीण्यूषणानि त्रिफला रजनीद्वयं च चूर्णीकृतानि यवशूकविमिश्रितानि ॥
क्षौद्रान्वितानि वितरेन्मुखधावनार्थमन्यानि तिक्तकटुकानि च भेषजानि ॥ १० ॥