169
कारव्यजाजीमरिचं द्राक्षावृक्षाम्लदाडिमम् ॥
सौवर्चलगुडक्षौद्रं सर्वारोचकनाशनम् ॥ ११ ॥
यवानी तित्तिडीकं च नागरं चाम्लवेतसम् ॥ १२ ॥
दाडिमं बदरं चाम्लं कार्षिकाण्युपकल्पयेत् ॥
धान्यसौवर्चलाजाजीवराङ्गं चार्धकार्षिकम् ॥ १३ ॥
पिप्पलीनां शतं चैकं द्वे शते मरिचस्य च ॥
शर्करायाश्च चत्वारि पलान्येकत्र चूर्णयेत् ॥ १४ ॥
जिह्वाविशोधनं हृद्यं तच्चूर्णं भक्तरोचनम् ॥
हृत्प्लीहपार्श्वशूलघ्नं विबन्धानाहनाशनम् ॥
कासश्वासहरं ग्राहि ग्रहण्यर्शोविकारनुत् ॥ १५ ॥

Adhikāra 15

आमाशयोत्क्लेशभवा हि सर्वाश्छर्द्यो मता लङ्घनमेव तस्मात् ॥
प्राक्कारयेन्मारुतजां विमुच्य संशोधनं वा कफपित्तहारि ॥ १ ॥