Adhikāra 16

175
तृष्णायां पवनोत्थायां सगुडं दधि शस्यते ॥
रसाश्च बृंहणाः शीता गुडूच्या रस एव च ॥ १ ॥
पञ्चाङ्गिकाः पञ्च गणा य उक्तास्तेष्वम्बु सिद्धं प्रथमे गणे वा ॥
पिबेत्सुखोष्णं मनुजोऽल्पशश्च तृष्णोपरोधं न कदाऽपि कुर्यात् ॥
पित्तोत्थितां पित्तहरैर्विपक्वं निहन्ति तोयं पय एव वाऽपि ॥ २ ॥
काश्मर्यशर्करायुक्तं चन्दनोशीरपद्मकम् ॥
द्राक्षामधुकसंयुक्तं पित्ततर्षे जलं पिबेत् ॥ ३ ॥
ससारिवादौ तृणपञ्चमूलैस्तथोत्पलादौ मधुरे गणे वा ॥
कुर्यात्कषायांस्तु तथैव युक्तान्मधूकपुष्पादिषु चापरेषु ॥ ४ ॥
बिल्वाढकीधातकिपञ्चकोलदर्भेषु सिद्धं कफजां निहन्ति ॥
हितं भवेच्छर्दितमेव चात्र तप्तेन निम्बप्रसवोदकेन ॥ ५ ॥
176
सजीरकाण्यार्द्रकशृङ्गबेरसौवर्चलान्यर्धजलप्लुतानि ॥
मद्यानि हृद्यानि च गन्धवन्ति पीतानि सद्यः शमयन्ति तृष्णाम् ॥ ६ ॥
क्षतोद्भवां रुग्विनिवारणेन जयेद्रसानामसृजश्च पानैः ॥
क्षयोत्थितां क्षीरजलं निहन्यान्मांसोदकं वाऽथ मधूदकं वा ॥ ७ ॥
गुर्वन्नजामुल्लिखनैर्जयेत्तु क्षयादृते सर्वकृतां च तृष्णाम् ॥ ८ ॥
177
लाजोदकं मधुयुतं घृतं गुडविमिश्रितम् ॥
काश्मर्यशर्करायुक्तं पिबेत्तृष्णार्दितो नरः ॥ ९ ॥
आम्रजम्बूकषायं वा पिबेन्माक्षिकसंयुतम् ॥
छर्दिं सर्वां प्रणुदति तृष्णां चैवापकर्षति ॥ १० ॥
गोस्तनेक्षुरसक्षीरयष्टीमधुमधूत्पलैः ॥
नियतं नस्ततः (नासया) पीतैस्तृष्णा शाम्यति दारुणा ॥ ११ ॥
क्षीरेक्षुरसमार्द्वीकक्षौद्रसीधुगुडोदकैः ॥
वृक्षाम्लाम्लैश्च गण्डूषास्तालुशोषप्रणाशनाः ॥ १२ ॥
वैशद्यं जनयत्यास्ये प्ररोहयति यद्व्रणान् ॥
दाहतृष्णाप्रशमनं मधुगण्डूषधारणम् ॥ १३ ॥
वारि शीतं मधुयुतमाकण्ठाच्च पिपासितम् ॥
पाययेद्वामयेच्चापि तेन तृष्णा प्रशाम्यति ॥ १४ ॥
अतिरूक्षदुर्बलानां शमयेत्तृष्णामिहाऽऽशु पयः ॥
छागो वा घृतभृष्टः शीतो मधुरो रसो हृद्यः ॥ १५ ॥
स्निग्धेऽन्ने भुक्ते या तृष्णा स्यात्तां गुडाम्बुना शमयेत् ॥ १६ ॥
178
वटशृङ्गसितालोध्रं दाडिमं मधुकं मधु ॥
पिबेत्तण्डुलतोयेन च्छर्दितृष्णानिवारणम् ॥ १७ ॥
तालुशोषे पिबेत्सर्पिर्घृतमण्डमथापि वा ॥
मूर्छाछर्दितृषादाहस्त्रीमद्यश्रमकर्शिताः ॥
पिबेयुः शीतलं तोयं रक्तपित्ते मदात्यये ॥ १८ ॥
धान्याम्लं मुखवैरस्यमलदौर्गन्ध्यनाशनम् ॥
तदेवालवणं शीतं मुखशोषहरं परम् ॥ १९ ॥
कोलदाडिमवृक्षाम्लचुक्रीकाचुक्रिकारसः ॥
पञ्चाम्लको मुखालेपः सद्यस्तृष्णां नियच्छति ॥ २० ॥
वटप्ररोहं मधुकुष्ठमुत्पलं सलाजचूर्णं गुटिकां प्रकल्पयेत् ॥
सुसंहिता सा वदनेन धारिता तृष्णां प्रवृद्धामपि हन्ति सत्वरम् ॥ २१ ॥
ओदनं रक्तशालीनां शीतं माक्षिकसंयुतम् ॥
भोजयेत्तेन शाम्येते छर्दितृष्णे चिरोत्थिते ॥ २२ ॥
179
तृष्यन्पूर्वामयक्षीणो न लभेत जलं यदि ॥
मरणं दीर्घरोगं वा प्राप्नुयात्त्वरितं नरः ॥ २३ ॥
सात्म्यान्नपानभैषज्यैस्तृष्णां तस्य जयेत्पुनः ॥
तस्यां जितायामन्योऽपि व्याधिः शक्यश्चिकित्सितुम् ॥ २४ ॥
तृषितो मोहमायाति मोहात्प्राणान्विमुञ्चति ॥
तस्मात्सर्वास्ववस्थासु न क्वचिद्वारि वार्यते ॥ २५ ॥