181
लुञ्चनं केशलोम्नां च दन्तैर्दशनमेव च ॥
आत्मगुप्तावघर्षश्च हितस्तस्यावबोधने ॥ ९ ॥

Adhikāra 18

मन्थः खर्जूरमृद्वीकावृक्षाम्लाम्लिकदाडिमैः ॥
परूषकैः सामलकैर्युक्तो मद्यविकारनुत् ॥ १ ॥
सतीनमुद्गसंमिश्रान्दाडिमामलकान्वितान् ॥
द्राक्षामलकखर्जूरपरूषकरसेन वा ॥
कल्पयेत्तर्पणान्यूषान्रसांश्च विविधात्मकान् ॥ २ ॥
पथ्याक्वाथेन वा सिद्धं घृतं धात्रीरसेन वा ॥
सर्पिः कल्याणकं वाऽपि मदमूर्छापहं पिबेत् ॥ ३ ॥
छर्दिमूर्छातिसारं च मदं पूगफलोद्भवम् ॥
सद्यस्तच्छमयेत्पीतमातृप्तेर्वारि शीतलम् ॥ ४ ॥