186
ह्रीवेरपद्मकोशीरचन्दनक्षोदवारिणा ॥
संपूर्णामवगाहेत द्रोणीं दाहार्दितो नरः ॥ ९ ॥

Adhikāra 20

वातिके स्नेहपानं प्राग्विरेकः पित्तसंभवे ॥
कफजे वमनं कार्यं परो बस्त्यादिकः क्रमः ॥ १ ॥
यच्चोपदेक्ष्यते किंचिदपस्मारचिकित्सिते ॥
उन्मादे तच्च कर्तव्यं सामान्याद्दोषदूष्ययोः ॥ २ ॥
ब्राह्मीकूष्माण्डीफलषड्ग्रन्थाशङ्खपुष्पिकास्वरसाः ॥
उन्मादहृतो दृष्टाः पृथगेते कुष्ठमधुमिश्राः ॥ ३ ॥