187
दशमूलाम्बु सघृतं युक्तं मांसरसेन वा ॥
ससिद्धार्थकचूर्णं वा केवलं वाऽनवं घृतम् ॥ ४ ॥
उन्मादशान्तये पेयो रसो वा तालशाखजः ॥
प्रयोज्यं सार्षपं तैलं नस्याभ्यञ्जनयोः सदा ॥ ५ ॥
सिद्धार्थको वचा हिङ्गु करञ्जो देवदारु च ॥
मञ्जिष्ठा त्रिफला श्वेता कटभीत्वक्कटुत्रिकम् ॥ ६ ॥
समांशानि प्रियङ्गुश्च शिरीषो रजनीद्वयम् ॥
बस्तमूत्रेण पिष्टोऽयमगदः पानमञ्जनम् ॥ ७ ॥
नस्यमालेपनं चैव स्नानमुद्वर्तनं तथा ॥
अपस्मारविषोन्मादकृत्यालक्ष्मीज्वरापहः ॥ ८ ॥
भूतेभ्यश्च भयं हन्ति राजद्वारे च शस्यते ॥
सर्पिरेतेन सिद्धं वा सगोमूत्रं तदर्थकृत् ॥ ९ ॥
त्र्यूषणं हिङ्गु लवणं वचा कटुकरोहिणी ॥
शिरीषं नक्तमालस्य बीजं श्वेताश्च सर्षपाः ॥ १० ॥
गोमूत्रपिष्टैरेतैस्तु वर्तिर्नेत्राञ्जने हिता ॥
चतुर्थकमपस्मारमुन्मादं च नियच्छति ॥ ११ ॥