194
ब्राह्मीरसे वचाकुष्ठशङ्खपुष्पीभिरेव च ॥
पुराणं सर्पिरुन्मादग्रहापस्मारनाशनम् ॥ १५ ॥
कूष्माण्डकरसे सर्पिरष्टादशगुणे पचेत् ॥
यष्ट्याह्वकल्कं तत्पानमपस्मारहरं परम् ॥ १६ ॥
गोशकृद्रसदध्यम्लक्षीरमूत्रैः समं घृतम् ॥
सिद्धं चतुर्थकोन्मादग्रहापस्मारनाशनम् ॥ १७ ॥
द्विपञ्चमूलं त्रिफलां रजन्यौ कटुकां वचाम् ॥
सप्तपर्णमपामार्गं नीलिनीं कटुरोहिणीम् ॥ १८ ॥
शम्याकं फल्गुमूलं च पौष्करं सदुरालभम् ॥
द्विपलानि जलद्रोणे पक्त्वा पादरसे स्थिते ॥ १९ ॥
भार्ङ्गीपाठात्रिकटुकं त्रिवृतां निचुलानि च ॥
श्रेयसीमाढकीं रास्नां मूर्वां भूनिम्बचित्रकौ ॥ २० ॥
सारिवे द्वे रोहिषं च भूतिकं मदयन्तिकाम् ॥
क्षिपेत्पिष्ट्वाऽक्षमात्राणि तैः प्रस्थं सर्पिषः पचेत् ॥ २१ ॥
गोशकृद्रसदध्यम्लक्षीरमूत्रैश्च तत्समैः ॥
पञ्चगव्यमिदं ख्यातं महत्तदमृतोपमम् ॥ २२ ॥
अपस्मारे तथोन्मादे श्वयथावुदरेषु च ॥
गुल्मार्शःपाण्डुरोगेषु कामलायां हलीमके ॥
अलक्ष्मीग्रहरक्षोघ्नं चातुर्थिकविनाशनम् ॥ २३ ॥

Adhikāra 22