Adhikāra 22

195
अभ्यङ्गः स्वेदनं बस्तिर्नस्यं स्नेहविरेचनम् ॥
स्निग्धाम्ललवणं स्वादु वृष्यं वातामयापहम् ॥ १ ॥
पटोलफलकैर्यूषो वृष्यो वातहरो लघुः ॥
वाट्यालककृतो यूषः परं वातविनाशनः ॥ २ ॥
पञ्चमूलीबलासिद्धं क्षीरं वातामये हितम् ॥
शीतोष्णस्निग्धरूक्षाद्यैर्वातजो यो न शाम्यति ॥
विकारस्तत्र विज्ञेयो दुष्टमेवास्ति शोणितम् ॥ ३ ॥
196
वाजिगन्धा बलास्तिस्रो दशमूली महौषधम् ॥
द्वे गृध्रनख्यौ रास्ना च गणोऽयं वातनाशनः ॥ ४ ॥
आनूपमत्स्यैश्च सवेसवारैरुष्णैः प्रदेहः पवनापहः स्यात् ॥
स्नेहैश्चतुर्भिर्दशमूलसिद्धैर्गन्धौषधैश्चानिलहा प्रदेहः ॥ ५ ॥
निरस्थि पिशितं पिष्टं स्विन्नं घृतगुडान्वितम् ॥
कृष्णामरिचसंयुक्तं वेसवार इति स्मृतः ॥ ६ ॥
काकोल्यादिः सवातघ्नः सर्वाम्लद्रव्यसंयुतः ॥
सानूपमांसः सुस्विन्नः सर्वस्नेहसमन्वितः ॥ ७ ॥
सुखोष्णः स्पष्टलवणः साल्वणः परिकीर्तितः ॥
तेनोपनाहं कुर्वीत सर्वदा वातरोगिणाम् ॥ ८ ॥
काकोल्यादिर्गणो ग्राह्यो योज्योऽष्टवर्गसंयुतः ॥
वातघ्नो भद्रदार्वादिर्वर्गोऽम्लो दाडिमादिकः ॥ ९ ॥
197
सर्वस्नेहाश्चतुःस्नेहा लवणं सैन्धवादिकम् ॥
अम्लादिभिश्च संस्कार्यं काकोल्यादित्रयं त्रिभिः ॥ १० ॥
आमाशयगते वाते छर्दिताय यथाक्रमम् ॥
देयः षट्चरणो योगः सप्तरात्रं सुखाम्बुना ॥ ११ ॥
198
चित्रकेन्द्रयवाः पाठाकटुकातिविषाभयाः ॥
महाव्याधिप्रशमनो योगः षट्चरणो मतः ॥ १२ ॥
कर्षोऽष्टादशनिष्पावैर्धरणं त्र्यधिकैस्तु तैः ॥
तेन षड्धरणो योगः सप्तरात्रं प्रयुज्यते ॥ १३ ॥
पक्वाशयगते वाते कार्यं स्नेहविरेचनम् ॥
वस्तयः शोधनीयाश्च प्राशाश्च लवणोत्तराः ॥ १४ ॥
199
कार्यो बस्तिगते चापि विधिर्वस्तिविशोधनः ॥
श्रोत्रादिषु प्रकुपिते कार्यश्चानिलहा क्रमः ॥ १५ ॥
स्नेहाभ्यङ्गोपनाहांश्च मर्दनालेपनानि च ॥
त्वङ्मांसासृक्शिराप्राप्ते कुर्याच्चासृग्विमोक्षणम् ॥ १६ ॥
200
स्नेहोपनाहाग्निकर्मबन्धनोन्मर्दनानि च ॥
स्नायुसंध्यस्थिसंप्राप्ते कुर्याद्वाते विचक्षणः ॥ १७ ॥
निगूढेऽस्थिगते वाते पाणिमन्थेन दारिते ॥
नाडीं दत्त्वाऽस्थनि भिषक्चूषयेत्पवनं बली ॥ १८ ॥
शुक्रप्राप्तेऽनिले कार्यं शुक्रदोषचिकित्सितम् ॥ १९ ॥
201
वक्षस्त्रिकस्कन्धगतं वायुं मन्यागतं तथा ॥
वमनं हन्ति नस्यं च कुशलेन प्रयोजितम् ॥ २० ॥
माषबलाशुकशिम्बाकत्तृणरास्नाश्वगन्धोरुबूकाणाम् ॥
क्वाथो नस्यनिपीतो रामठलवणान्वितः कोष्णः ॥ २१ ॥
अपहरति पक्षवातं मन्यास्तम्भं सकर्णनादरुजम् ॥
दुर्जयमर्दितवातं सप्ताहाज्जयति चावश्यम् ॥ २२ ॥
माषिकं हिङ्गुसिन्धूत्थे जरणाद्यास्तु शाणिकाः ॥
माषात्मगुप्तकैरण्डं शृतं वाट्यालकं पिबेत् ॥
हिङ्गुसैन्धवसंयुक्तं पक्षाघातनिवारणम् ॥ २३ ॥
पलमर्धपलं वाऽपि रसोनस्य सुकुट्टितम् ॥ २४ ॥
हिङ्गुजीरकसिन्धूत्थैः सौवर्चलकटुत्रिकैः ॥
चूर्णितैर्माषकोन्मानैरवचूर्ण्य विलोडितम् ॥ २५ ॥
यथाग्निभक्षितं प्राता रुबूकक्वाथपानतः ॥
दिने दिने प्रयोक्तव्यं मासमेकं निरन्तरम् ॥ २६ ॥
वातरोगं निहन्त्याशु अर्दितं चापतन्त्रकम् ॥
एकाङ्गरोगिणे चैव तथा सर्वाङ्गरोगिणे ॥ २७ ॥
ऊरुस्तम्भे च गृध्रस्यां कृमिदोषे विशेषतः ॥
कटिकुक्ष्यामयं हन्याज्जाठरं च विशेषतः ॥ २८ ॥
202
माषपिष्टकृतिं जग्ध्वा नवनीतेन सोऽर्दिती ॥
क्षीरमांसरसैर्भुक्त्वा दशमूलीजलं पिबेत् ॥ २९ ॥
स्नेहाभ्यङ्गपरो बस्तिनस्यधूमपरायणः ॥
अर्दितं स जयेत्सर्पिः पिबेदुत्तरभक्तकम् ॥ ३० ॥
दशमूलीबलामाषक्वाथं तैलाज्यमिश्रितम् ॥
सायं भुक्त्वा पिबेन्नस्यं विश्वाच्यामवबाहुके ॥ ३१ ॥
मूलं बलायास्त्वथ पारिभद्रात्तथाऽऽत्मगुप्तास्वरसं पिबेद्वा ॥
नस्यं तु यो माषरसेन कुर्यान्मासादसौ वज्रसमानबाहुः ॥ ३२ ॥
पञ्चमूलीकृतः क्वाथो दशमूलकृतोऽथ वा ॥
रूक्षः स्वेदस्तथा नस्यं मन्यास्तम्भे प्रशस्यते ॥ ३३ ॥
बाहुशोषे पिबेद्भुक्त्वा सर्पिः कल्याणकं महत् ॥
हृदयं यदि वा पृष्ठमुन्नतं क्रमशः सरुक् ॥
ऊर्ध्वो वायुर्यदा कुर्यात्तदा तं कुब्जमादिशेत् ॥ ३४ ॥
203
वातघ्नैर्दशमूल्या च नवं कुब्जमुपाचरेत् ॥
स्नैहैर्मांसरसैर्वाऽपि प्रवृद्धं तं विवर्जयेत् ॥ ३५ ॥
पिप्पल्यादिरजस्तूनीप्रतितून्योः सुखाम्बुना ॥
पिबेद्वा स्नेहलवणं सघृतं क्षारहिङ्गु वा ॥ ३६ ॥
आध्माने लङ्घनं पाणितापश्च फलवर्तयः ॥
दीपनं पाचनं चैव वस्तिश्चैव विशोधनः ॥ ३७ ॥
दारुहैमवतीकुष्ठैः सैन्धवक्षारहिङ्गुभिः ॥
अम्लपिष्टैः सुखोष्णैश्च आध्मान उदरं दिहेत् ॥ ३८ ॥
प्रत्याध्माने तु वमनं लङ्घनं दीपनं तथा ॥ ३९ ॥
204
प्रत्यष्ठीलाष्ठीलिकयोर्गुल्माभ्यन्तरविद्रधेः ॥
क्रिया हिङ्ग्वादिकं चात्र शस्यतेऽत्र विशेषतः ॥ ४० ॥
विश्वाच्यां खञ्जपङ्ग्वोश्च दाहे हर्षे च पादयोः ॥
कोष्टुशीर्षविकारे च विकारे वातकण्टके ॥
शिरां यथोक्तां निर्विध्य चिकित्सा वातरोगवत् ॥ ४१ ॥
जिह्वास्तम्भे क्रिया श्रेष्ठा सामान्योक्ता तथाऽर्दिते ॥
शिरोग्रहे तु कर्तव्या शिरोगतमरुत्क्रिया ॥ ४२ ॥
सहरिद्रा वचा कुष्ठं पिप्पली विश्वभेषजम् ॥ ४३ ॥
अजाजी चाजमोदा च यष्टीमधुकसैन्धवम् ॥
एतानि समभागानि श्लक्ष्णचूर्णानि कारयेत् ॥ ४४ ॥
तच्चूर्णं सर्पिषाऽऽलोड्य प्रत्यहं भक्षयेन्नरः ॥
एकविंशतिरात्रेण भवेच्छ्रुतिधरो नरः ॥ ४५ ॥
मेघदुन्दुभिनिर्घोषो मत्तकोकिलनिस्वनः ॥
जाड्यगद्गदमूकत्वं लेहः कल्याणको जयेत् ॥ ४६ ॥
गुग्गुलुं क्रोष्टुशीर्षे तु गुडूचीत्रिफलाम्भसा ॥
क्षीरेणैरण्डतैलं वा पिबेद्वा वृद्धदारकम् ॥ ४७ ॥
205
श्यामासमालम्बुषाद्यं कार्यं वा वातरक्तनुत् ॥
हृते रक्तेऽनिलहरो विधिः कृत्स्नः प्रशस्यते ॥ ४८ ॥
दशमूलीबलारास्नागुडूचीविश्वभेषजम् ॥
पिबेदेरण्डतैलेन गृध्रसीखञ्जपङ्गुषु ॥ ४९ ॥
विशोध्यैरण्डबीजानि पिष्ट्वा क्षीरे विपाचयेत् ॥
तत्पायसं कटीशूले गृध्रस्यां परमौषधम् ॥ ५० ॥
पञ्चमूलीकषायं तु रुबुतैलत्रिवृद्युतम् ॥
गृध्रसीगुल्मशूलं च पीतं सद्यो नियच्छति ॥ ५१ ॥
तैलं घृतं वाऽर्द्रकमातुलुङ्ग्यो रसं सचुक्रं सगुडं पिबेद्वा ॥
कट्यूरुपृष्ठत्रिकशूलगुल्मगृध्रस्युदावर्तहरः प्रदिष्टः ॥ ५२ ॥
रास्नायास्तु पलं चैकं कर्षान्पञ्च च गुग्गुलोः ॥
सर्पिषा वटिकां कृत्वा खादेद्वा गृध्रसीहराम् ॥ ५३ ॥
शुण्ठीगन्धर्वबीजाभ्यां पिष्टाभ्यां पायसं कृतम् ॥
भक्षितं कटिशूलं च गृध्रसीं हन्त्यसंशयम् ॥ ५४ ॥
206
नाऽऽदौ बस्तिविधिं कुर्याद्यावदूर्ध्वं न शुध्यति ॥
स्नेहो निरर्थकस्तत्र भस्मनीव हुतं यथा ॥ ५५ ॥
गृध्रस्यार्तस्य जङ्घायां स्नेहस्वेदे कृते भृशम् ॥
पद्भ्यां संमर्दितायां च सूक्ष्ममार्गेण गृध्रसीम् ॥ ५६ ॥
अवतार्याङ्गुलौ सम्यक्कनिष्ठायां शनैः शनैः ॥
ज्ञात्वा समुन्नतं ग्रन्थिं कण्डरायां व्यवस्थितम् ॥ ५७ ॥
तं शस्त्रेण विदार्याऽऽशु प्रवालाङ्कुरसंनिभम् ॥
समुद्धृत्याग्निना दग्ध्वा लिम्पेद्यष्ट्याह्वचन्दनैः ॥ ५८ ॥
विध्येच्छिरामिन्द्रबस्तेरधस्ताच्चतुरङ्गुले ॥
यदि नोपशमं गच्छेद्दहेत्पादकनिष्ठिकाम् ॥ ५९ ॥
तैलमेरण्डजं वाऽपि गोमूत्रेण पिबेन्नरः ॥
मासमेकं प्रयोगोऽयं गृध्रस्यूरुग्रहापहः ॥ ६० ॥
रक्तावसेचनं कुर्यादभीक्ष्णं वातकण्टके ॥
पिबेदेरण्डतैलं वा दहेत्सूचीभिरेव च ॥ ६१ ॥
वायुः कट्याश्रितः क्रुद्धः सामो वा जनयेद्रुजम् ॥
कटिग्रहः स एवोक्तः पङ्गुः सक्थिद्वयाश्रितः ॥ ६२ ॥
दशमूलकषायेण पिबेद्वा नागराम्भसा ॥
कटिशूलेषु सर्वेषु तैलमेरण्डसंभवम् ॥ ६३ ॥
पृथक्पलांशा त्रिफला पिप्पली च विचूर्णितम् ॥
दशमूलाम्बुना भाव्यं त्वगेलार्धपलान्वितम् ॥ ६४ ॥
207
दत्त्वा पलानि पञ्चैव गुग्गुलोर्वटकीकृतः ॥
एष मांसरसाभ्यासाद्वातरोगानशेषतः ॥ ६५ ॥
हन्ति संध्यस्थिमज्जस्थान्वृक्षमिन्द्राशनिर्यथा ॥
लेहवद्द्विगुणेनायमालोड्याऽऽलोड्य वाऽऽतपे ॥
दशमूलाम्बुना शोष्यः सप्तवारांस्तु गुग्गुलुः ॥ ६६ ॥
आभाऽश्वगन्धा हपुषा गुडूची शतावरी गोक्षुरकं समङ्गा ॥ ६७ ॥
श्यामा शठी घोषवती यवानी सनागरा चेति समैश्च चूर्णैः ॥
तुल्यं भवेत्कौशिकमत्र मध्ये देयं तथा सर्पिरतोऽर्धभागम् ॥ ६८ ॥
अर्धाक्षमात्रं च ततः प्रयोगात्कृत्वाऽनुपानं सुरयाऽथ यूषैः ॥
मद्येन वा कोष्णजलेन वाऽपि क्षीरेण वा मांसरसेन वाऽपि ॥ ६९ ॥
कटिग्रहे गृध्रसिबाहुपृष्ठे हनुग्रहे जानुनि पादयुग्मे ॥
संधिस्थिते चास्थिगते च वाते मज्जागते स्नायुगते च कोष्ठे ॥ ७० ॥
रोगाञ्जयेद्वातकफानुविद्धान्वातेरितान्हृद्ग्रहयोनिदोषान् ॥
भग्नास्थिविद्धेषु च खञ्जवाते त्रयोदशाङ्गं प्रवदन्ति सिद्धाः ॥ ७१ ॥
208
दशमूलस्य निर्यूहे जीवनीयैः पलोन्मितैः ॥
क्षीरेण च घृतं पक्वं तर्पणं पवनार्तिजित् ॥ ७२ ॥
अश्वगन्धाकषायेण कल्कैः क्षीरं चतुर्गुणम् ॥
घृतं पक्वं तु वातघ्नं वृष्यं मांसविवर्धनम् ॥ ७३ ॥
209
आजं चर्मविनिर्मुक्तं त्यक्तशृङ्गखुरादिम् ॥
पञ्चमूलीद्वयं सम्यग्जलद्रोणे विपाचयेत् ॥ ७४ ॥
तेन पादावशेषेण घृतप्रस्थं विपाचयेत् ॥
जीवनीयैः सयष्ट्याह्वैः क्षीरं चैव शतावरीम् ॥ ७५ ॥
छागलाद्यमिदं नाम्ना सर्ववातविकारनुत् ॥
अर्दिते कर्णशूले च बाधिर्ये मूकमिम्मिणे ॥ ७६ ॥
जडगद्गदपङ्गूनां खञ्जे गृध्रसिकुब्जयोः ॥
अपतानेऽपतन्त्रे च सर्पिरेतत्प्रशस्यते ॥ ७७ ॥
द्वात्रिंशच्च पलान्यत्र देयानि दशमूलतः ॥
घृते तैले च योगे च यद्द्रव्यं पुनरुच्यते ॥
तज्ज्ञातव्यमिहाऽऽर्येण भागतो द्विगुणं भवेत् ॥ ७८ ॥
एलामुरासरलशैलजदारुकौन्ती-
चण्डाशठीनलदचम्पकहेमपुष्पम् ॥
स्थौणेयगन्धरसपूतिदलं मृणाल-
श्रीवासकुन्दुरुनखाम्बुवराङ्गकुष्ठम् ॥ ७९ ॥
कालीयकं जलदकर्कटचन्दनश्री-
र्जात्याः फलं सविकसं सहकुङ्कुमं च ॥
स्पृक्कातुरुष्कलघु लाभतया विनीय
तैलं बलाक्वथनदुग्धयुतं च दध्ना ॥ ८० ॥
210
सार्धं पचेत्तु हितमेतदुदाहरन्ति
वातामयेषु बलवर्णवपुष्प्रकाशि ॥ ८१ ॥
बलानिष्क्वाथकल्काभ्यां तैलं पक्वं पयः समम् ॥
सर्ववातविकारघ्नमेवं शैलेयपाचितम् ॥ ८२ ॥
बलामूलकषायस्य दशमूलीकृतस्य च ॥
यवकोलकुलत्थानां क्वाथस्य पयसस्तथा ॥ ८३ ॥
अष्टावष्टौ शुभा भागास्तैलादेकस्तदेकतः ॥
पचेदावाप्य मधुरं गणं सैन्धवसंयुतम् ॥ ८४ ॥
तथाऽगुरुं सर्जरसं सरलं देवदारु च ॥
मञ्जिष्ठां चन्दनं कुष्ठमेलां कालानुसारिवाम् ॥ ८५ ॥
मांसीं शैलेयकं पत्रं तगरं सारिवाद्वयम् ॥
शतावरीमश्वगन्धां शतपुष्पां पुनर्नवाम् ॥ ८६ ॥
तत्साधुसिद्धं सौवर्णे राजते मृन्मये तथा ॥
प्रक्षिप्य कलशे सम्यक्स्वनुगुप्तं निधापयेत् ॥ ८७ ॥
बलातैलमिदं नाम्ना सर्ववातविकारनुत् ॥
यथाबलमतो मात्रां सूतिकायै प्रदापयेत् ॥ ८८ ॥
या च गर्भार्थिनी नारी क्षीणशुक्रश्च यः पुमान् ॥
वातक्षीणे मर्महते मथितेऽभिहते तथा ॥ ८९ ॥
भग्ने श्रमाभिपन्ने च सर्वथैवोपयुज्यते ॥
एतदाक्षेपकादींश्च वातव्याधीनपोहति ॥ ९० ॥
211
हिक्कां श्वासमधीमन्थं गुल्मं कासं सुदुस्तरम् ॥
षण्मासानुपयुञ्जीत अन्त्रवृद्धिमपोहति ॥ ९१ ॥
प्रत्यग्रधातुः पुरुषो भवेच्च स्थिरयौवनः ॥
एतद्धि राज्ञा कर्तव्यं राजमात्राश्च ये नराः ॥
सुखिनः सुकुमाराश्च धनिनश्चापि ये नराः ॥ ९२ ॥
बिल्वोऽग्निमन्थः स्योनाकः पाटला पारिभद्रकः ॥
प्रसारिण्यश्वगन्धा च बृहती कण्टकारिका ॥ ९३ ॥
बला चातिबला चैव श्वदंष्ट्रा सपुनर्नवा ॥
एषां दशपलान्भागांश्चतुर्द्रोणेऽम्भसः पचेत् ॥ ९४ ॥
पादशेषं परिस्राव्य तैलपात्रं प्रदापयेत् ॥
शतपुष्पा देवदारु मांसी शैलेयकं वचा ॥ ९५ ॥
चन्दनं तगरं कुष्ठमेलापर्णीचतुष्टयम् ॥
रास्ना तुरगगन्धा च सैन्धवं च पुनर्नवा ॥ ९६ ॥
एषां द्विपलिकान्भागान्पेषयित्वा विनिक्षिपेत् ॥
शतावरीरसं चैव तैलतुल्यं प्रदापयेत् ॥ ९७ ॥
आजं वा यदि वा गव्यं क्षीरं दद्याच्चतुर्गुणम् ॥
पाने बस्तौ तथाऽभ्यङ्गे भोज्ये नस्ये च शस्यते ॥ ९८ ॥
अश्वो वा वातसंभग्नो गजो वा यदि वा नरः ॥
पङ्गुलः पीठसर्पी च तैलेनानेन सिध्यति ॥ ९९ ॥
212
अधोभागे च ये वाताः शिरोमध्यगताश्च ये ॥
मन्यास्तम्भे हनुस्तम्भे दन्तरोगे गलग्रहे ॥ १०० ॥
यस्य शुष्यति चैकाङ्गं गतिर्यस्य च विह्वला ॥
क्षीणेन्द्रिया नष्टशुक्रा ज्वरक्षीणाश्च ये नराः ॥ १०१ ॥
बधिरा लल्लजिह्वाश्च स्वल्पमेधस एव च ॥
अल्पप्रजा च या नारी या च गर्भं न विन्दति ॥ १०२ ॥
वातार्तो वृषणो येषामन्त्रवृद्धिश्च दारुणा ॥
एतत्तैलं वरं तेषां नाम्ना नारायणं स्मृतम् ॥ १०३ ॥
शतावरी चांशुमती पृश्निपर्णी सहा बला ॥
एरण्डस्य च मूलानि बृहत्याः पूतिकस्य च ॥ १०४ ॥
गवेधुकस्य मूलानि तथा सहचरस्य च ॥
एषां दशपलान्भागाञ्जलद्रोणे विपाचयेत् ॥ १०५ ॥
पादावशेषे पूते च गर्भे चैव समावपेत् ॥
पुनर्नवावचादारुशताह्वाचन्दनागुरु ॥ १०६ ॥
शैलेयं तगरं कुष्ठमेलां मांसीं स्थिरां बलाम् ॥
अश्वाह्वां सैन्धवं रास्नां पलार्धानि च योजयेत् ॥ १०७ ॥
गव्याजपयसोः प्रस्थौ द्वौ द्वाऽवत्र प्रयोजयेत् ॥
शतावरीरसप्रस्थं तैलं प्रस्थं विपाचयेत् ॥ १०८ ॥
अस्य तैलस्य सिद्धस्य शृणु वीर्यमतः परम् ॥
अश्वानां वातभग्नानां कुञ्जराणां नृणां तथा ॥ १०९ ॥
213
तैलमेतत्प्रयोक्तव्यं सर्ववातविकारिणाम् ॥
आयुष्मान्स नरः पीत्वा निश्चयेन दृढो भवेत् ॥ ११० ॥
गर्भमश्वतरी विन्देत्किं पुनर्मानुषी तथा ॥
हृच्छूलं पार्श्वशूलं च तथैवार्धावभेदकम् ॥ १११ ॥
अपचीं गलगण्डं च वातरक्तं गलग्रहम् ॥
कामलां पाण्डुरोगं चापस्मारं चापि नाशयेत् ॥ ११२ ॥
तैलमतद्भगवता विष्णुना परिकीर्तितम् ॥
नारायणमिति ख्यातं वातान्तकरणं शुभम् ॥ ११३ ॥
शतं पक्त्वाऽश्वगन्धाया जलद्रोणेंऽशशेषितम् ॥
विस्राव्य विपचेत्तैलं क्षीरं दत्त्वा चतुर्गुणम् ॥ ११४ ॥
कल्कैर्मृणालशालूकविसकिञ्जल्कमालती--
पुष्पैर्ह्वीवेरमधुकसारिवापद्मकेसरैः ॥ ११५ ॥
मेदापुनर्नवाद्राक्षामञ्जिष्ठाबृहतीद्वयैः ॥
एलैलवालुत्रिफलामुस्तचन्दनपद्मकैः ॥ ११६ ॥
पक्वं रक्ताश्रयं वातं रक्तपित्तमसृग्दरम् ॥
हन्यात्पुष्टिं बलं कुर्यात्कृशानां मांसवर्धनम् ॥ ११७ ॥
रेतोयोनिविकारघ्नं व्रणदोषापकर्षणम् ॥
षण्ढानपि वृषान्कुर्यात्पानाभ्यङ्गानुवासनैः ॥ ११८ ॥
तैलं संकुचितेऽभ्यङ्गो माषसैन्धवसाधितम् ॥
बाहुशीर्षगते नस्यं पानं चोपरिभक्तिकम् ॥ ११९ ॥
214
माषात्मगुप्तातिरसोरुबूक-
रास्नाशताह्वालवणैः सुपिष्टैः ॥
चतुर्गुणे माषबलाकषाये
तैलं कृतं हन्ति च पक्षवातम् ॥ १२० ॥
माषप्रस्थं समावाप्य पचेत्सम्यग्जलाढके ॥
पादशेषे रसे तस्मिन्क्षीरं दद्याच्चतुर्गुणम् ॥ १२१ ॥
प्रस्थं च तिलतैलस्य कल्कं दत्त्वाऽक्षसंमितम् ॥
जीवनीयानि यान्यष्टौ शतपुष्पां ससैन्धवाम् ॥ १२२ ॥
रास्नात्मगुप्तामधुकं बलाव्योषत्रिकण्टकम् ॥
पक्षघातेऽर्दिते वाते कर्णशूले सुदारुणे ॥ १२३ ॥
मन्दश्रुतौ च श्रवणे तिमिरे च त्रिदोषजे ॥
हस्तकम्पे शिरःकम्पे विश्वाच्यामवबाहुके ॥ १२४ ॥
शस्तं कलायखञ्जे च पानाभ्यञ्जनबस्तिभिः ॥
माषतैलमिति ख्यातमूर्ध्वजत्रुगदापहम् ॥ १२५ ॥
माषातसीयवकुरण्टककण्टकारी-
गोकण्टटुण्टुकजटाकपिकच्छुतोयैः ॥
कार्पासकास्थिशणबीजकुलत्थकोल-
क्वाथेन बस्तपिशितस्य रसेन वाऽपि ॥ १२६ ॥
शुण्ठ्या समागधिकया शतपुष्पया च
सैरण्डमूलसपुनर्नवया सरण्या ॥
रास्नाबलामृतलताकटुकैर्विपक्वं
माषाख्यमेतदवबाहुकहारि तैलम् ॥ १२७ ॥
215
अर्धाङ्गशोषमपतानकमाढ्यवात-
माक्षेपकं सभुजकम्पशिरःप्रकम्पम् ॥
नस्येन बस्तिविधिना परिषेचनेन
हन्यात्कटीजघनजानुरुजः समीरान् ॥ १२८ ॥
माषक्वाथे बलाक्वाथे रास्नाया दशमूलजे ॥
यवकोलकुलत्थानां छागमांसरसे पृथक् ॥ १२९ ॥
प्रस्थे तैलस्य प्रस्थं च क्षीरं दत्त्वा चतुर्गुणम् ॥
रास्नात्मगुप्तासिन्धूत्थशताह्वैरण्डमुस्तकैः ॥ १३० ॥
जीवनीयबलाव्योषैः पचेदक्षसमैः पृथक् ॥
हस्तकम्पे शिरःकम्पे बाहुशोषेऽवबाहुके ॥ १३१ ॥
बाधिर्ये कर्णशूले च कर्णनादे च दारुणे ॥
विश्वाच्यामर्दिते कुब्जे गृध्रस्यामपतानके ॥ १३२ ॥
बस्त्यभ्यञ्जनपानेषु नावने च प्रयोजयेत् ॥
माषतैलमिदं श्रेष्ठमूर्ध्वजत्रुगदापहम् ॥ १३३ ॥
द्विपञ्चमूलीं निष्क्वाथ्य तैलात्षोडशभिर्गुणैः ॥
माषाढकं साधयित्वा तं निर्यूहं चतुर्गुणम् ॥ १३४ ॥
ग्राहयित्वा पचेत्तैलं प्रस्थं छागपयःसमम् ॥
कल्कार्धं च समावाप्य भिषग्द्रव्याणि बुद्धिमान् ॥ १३५ ॥
अश्वगन्धाशठीदारुबलारास्नाप्रसारणी ॥
कुष्ठं परूषकं भार्ङ्गी द्वे विदार्यौ पुनर्नवा ॥ १३६ ॥
216
मातुलुङ्गफलाजाज्यौ रामठं शतपुष्पिका ॥
शतावरी गोक्षुरकं पिप्पलीमूलचित्रकम् ॥ १३७ ॥
जीवनीयगणं सर्वं संहृत्य च ससैन्धवम् ॥
तत्साधु सिद्धं विज्ञाय माषतैलमिदं महत् ॥ १३८ ॥
पक्षघाते हनुस्तम्भे अर्दिते सापतन्त्रके ॥
अवबाहुकविश्वाच्योः खञ्जषङ्गुलयोरपि ॥ १३९ ॥
हस्तकम्पे शिरःकम्पे कुब्जवामनयोरपि ॥
हनुमन्याग्रहे चैव साधिमन्थे च वातिके ॥ १४० ॥
शुक्रक्षये कर्ण नादेकर्ण शूले च दारुणे ॥
कलायखञ्जशमने भैषज्यमिदमादिशेत् ॥
बस्त्यभ्यञ्जनपानेषु नावने च प्रयोजयेत् ॥ १४१ ॥
माषस्यार्धाढकं दत्त्वा तुलार्धं दशमूलतः ॥ १४२ ॥
पलानि च्छागमांसस्य त्रिंशद्द्रोणेऽम्भसः पचेत् ॥
पूतशीते कषाये च चतुर्थांशावतारिते ॥ १४३ ॥
प्रस्थं च तिलतैलस्य पयो दत्त्वा चतुर्गुणम् ॥
आत्मगुप्तोरुबूकश्च शताह्वा लवणत्रयम् ॥ १४४ ॥
जीवनीयानि मञ्जिष्ठा चव्यचित्रककट्फलम् ॥
सव्योषं पिप्पलीमूलं रास्नामधुकसैन्धवम् ॥ १४५ ॥
217
देवदार्वमृता कुष्ठं वाजिगन्धा वचा शठी ॥
एतैरक्षसमैः कल्कैः साधयेन्मृदुवह्निना ॥ १४६ ॥
पक्षाघातार्दिते वाते बाधिर्ये हनुसंग्रहे ॥
कर्णमन्याशिरःशूले तिमिरे च त्रिदोषजे ॥ १४७ ॥
पाणिपादशिरोग्रीवाभ्रमणे मन्दचङ्क्रमे ॥
कलायखञ्जपाङ्गुल्ये गृध्रस्यामवबाहुके ॥ १४८ ॥
पाने वस्तौ तथाऽभ्यङ्गे नस्ये कर्णाक्षिपूरणे ॥
तैलभेतत्प्रशंसन्ति सर्ववातरुजापहम् ॥ १४९ ॥
केतकिमूलबलातिबलानां यद्बहुलेन रसेन विपक्वम् ॥
तैलमनल्पतुषोदकसिद्धं मारुतमस्थिगतं विनिहन्ति ॥ १५० ॥
वाजिगन्धाबलाविश्वदशमूल्यम्बुकल्कितम् ॥
गृध्रस्यां तैलमैरण्डं पाने बस्तिषु शस्यते ॥ १५१ ॥
रसोनकल्कस्वरसेन पक्वं तैलं पिबेद्यस्त्वनिलामयार्तः ॥
तस्याऽऽशु नश्यन्ति हि वातरोगा ग्रन्था विशाला इव दुर्गृहीताः ॥ १५२ ॥
प्रसारण्यास्तुलामश्वगन्धाया दशमूलतः ॥
तुलां तुलां पृथग्वारिद्रोणे पक्त्वांऽशशेषिते ॥ १५३ ॥
तैलाढकं चतुःक्षीरं दधितुल्यं द्विकाञ्जिकम् ॥
द्विपलैर्ग्रन्थिकक्षारप्रसारण्यक्षसैन्धवैः ॥ १५४ ॥
218
समञ्जिष्ठाग्नियष्ट्याह्वैः पलिकैर्जीवनीयकैः ॥
शुण्ठ्याः पञ्चदलं दत्त्वा त्रिंशद्भल्लातकानि च ॥ १५५ ॥
पचेद्बस्त्यादिना वातं हन्ति संधिशिरास्थितम् ॥
पुंस्त्वोत्साहस्मृतिप्रज्ञाबलवर्णाग्निवृद्धये ॥ १५६ ॥
प्रसारणीशतं क्षुण्णं पचेत्तोयार्मणे शुभे ॥
पादशिष्टे समं तैलं दधि दद्यात्सकाञ्जिकम् ॥ १५७ ॥
द्विगुणं च पयो दत्त्वा कल्कान्द्विपलिकांस्तथा ॥
चित्रकं पिप्पलीमूलं मधुकं सैन्धवं वचाम् ॥ १५८ ॥
शतपुष्पादेवदारुरास्नावारणपिप्पलीः ॥
प्रसारण्याश्च मूलं च मांसीभल्लातकानि च ॥ १५९ ॥
पचेन्मृद्वग्निना तैलं वातश्लेष्मामयापहम् ॥
अशीतिं नरनारीस्थान्वातरोगान्व्यपोहति ॥ १६० ॥
कौब्जं स्तिमितपङ्गुत्वं गृध्रसीं खुडुकार्दितम् ॥
हनुपृष्ठशिरोग्रीवास्तम्भं चाऽऽशु नियच्छति ॥ १६१ ॥
समूलपत्रामुत्पाट्य शरत्काले प्रसारणीम् ॥ १६२ ॥
शतं ग्राह्यं सहचराच्छतावर्याः शतं तथा ॥
बलाश्वगन्धात्मगुप्ताकेतकीनां शतं शतम् ॥ १६३ ॥
219
पचेच्चतुर्गुणं तोये द्रवैस्तैलाढकं भिषक् ॥
मस्तु मांसरसं चुक्रं पयश्चाऽऽढकमाढकम् ॥ १६४ ॥
दध्याढकसमायुक्तं पाचयेन्मृदुनाऽग्निना ॥
द्रव्याणां तु प्रदातव्या मात्रा चार्धपलानिका ॥ १६५ ॥
तगरं मदनं कुष्ठं केसरं मुस्तकं त्वचम् ॥
रास्ना सैन्धवपिप्यल्यौ मांसीमञ्जिष्ठयष्टिकम् ॥ १६६ ॥
तथा मेदा महामेदा जीवकर्षभकौ पुनः ॥
शतपुष्पा व्याघ्रनखं शुण्ठी देवाह्वमेव च ॥ १६७ ॥
काकोली क्षीरकाकोली वचा भल्लातकं तथा ॥
पेषयित्वा समानेतान्साधनीया प्रसारणी ॥ १६८ ॥
नातिपक्वं न शीतं च सिद्धं पूतं निधापयेत् ॥
यत्र यत्र प्रयोक्तव्यं तन्मे निगदतः शृणु ॥ १६९ ॥
कुब्जानामथ पङ्गूनां वामनानां तथैव च ॥
यस्य शुष्यति चैकाङ्गं ये च भग्नास्थिसंधयः ॥ १७० ॥
वातशोणितदुष्टानां वातोपहतचेतसाम् ॥
स्त्रीमदक्षीणशुक्राणां वाजीकरणमुत्तमम् ॥ १७१ ॥
बस्तौ पाने तथाऽभ्यङ्गे भोज्ये चैव प्रदापयेत् ॥
प्रभुक्तं शमयत्याशु वातजान्विविधान्यदान् ॥ १७२ ॥
शाखामूलदलैः प्रसारणितुलास्तिस्रः कुरण्टात्तुले
छिन्नायाश्च तुले तुले रुबुकतो रास्नाशिरीषात्तुलाम् ॥
देवाह्वाच्च सकेतकाद्धटशते निष्क्वाथ्य कुम्भांशके
तोये तैलघटं तुषाम्बुकलशौ दत्त्वाऽऽढकं मस्तुनः ॥ १७३ ॥
220
सुक्ताच्छागरसादथेक्षुरसतः क्षीराच्च दत्त्वाऽऽढकं
स्पृक्काकर्कटजीवकाद्यविकसाकाकोलिकाकच्छुरा--
सूक्ष्मैलाघनसारकुन्दुसरलाकाश्मीरमांसीनखैः
कालीयोत्पलपद्मकाह्वयनिशाकङ्कोलकग्रन्थिकैः ॥ १७४ ॥
चाम्पेयाभयचोचपूगकटुकाजातीफलाभीरुभिः
श्रीवासामरदारुचन्दनवचाशैलेयसिन्धूद्भवैः ॥
तैलाम्भोदकटम्भराङ्घ्रिनलिकावृश्चीवकच्चोरकैः
कस्तुरीदशमूलकेतकिनतध्यामाश्वगधाम्बुभिः ॥ १७५ ॥
कौन्तीतार्क्ष्यजशल्लकीफललघुश्यामाशताह्वामयै-
र्भल्लातत्रिफलाब्जकेसरमहाश्यामालवङ्गान्वितैः ॥
सव्योषैस्त्रिफलैर्महीयसि पचेन्मन्देन पात्रेऽग्निना
पानाभ्यञ्जनबस्तिनस्यविधिना तन्मारुतं नाशयेत् ॥ १७६ ॥
सर्वार्धाङ्गगतं तथाऽवयवगं संध्यस्थिमज्जाश्रितं
श्लेष्मोत्थानपि पैत्तिकांश्च शमयेन्नानाविधानामयान् ॥
धातून्बृंहयते स्थिरं च कुरुते पुंसां नवं यौवनं
वृद्धस्यापि बलं करोति सुमहद्वन्ध्यासु गर्भप्रदम् ॥ १७७ ॥
पीत्वा तैलमिदं जरत्यपि सुतं सूतेऽमुना भूरुहाः
सिक्ताः शोषमुपागताश्च फलिनः स्निग्धा भवन्ति स्थिराः ॥
भग्नाङ्गाः सुदृढा भवन्ति मनुजा गावो हयाः कुञ्जराः ॥ १७८ ॥
221
या गन्धं केतकीनां वहति परिमलं वर्णतः पिञ्जराभा
स्वादे तिक्ता कटुर्वा लघुरपि तुलिता मर्दिता चिक्कणा या ॥
दग्धा नो याति भूतिं चिमिचिमितिकरा चर्मगन्धा हुताशे
सा शुद्धा शोभनीया वरमृगतनुजा राजयोग्या प्रदिष्टा ॥ १७९ ॥
करतलजलमध्ये स्थापयित्वा महद्भिः
पुनरपि तदवस्थं चिन्तनीयं मुहूर्तम् ॥
यदि भवति सरक्तं तज्जलं पीतवर्णं
न भवति मृगनाभिः कृत्रिमोऽसौ विकारः ॥ १८० ॥
द्वे पले सैन्धवात्पञ्च शुण्ठ्या ग्रन्थिकचित्रकात् ॥
द्वे द्वे भल्लातकास्थीनि विंशतिर्द्वे तथाऽऽढके ॥ १८१ ॥
आरनालात्पचेत्प्रस्थं तैलमेतैरपत्यदम् ॥
गृध्रस्यूरुग्रहार्तस्य सर्ववातविकारनुत् ॥ १८२ ॥