Adhikāra 24

231
स्नेहासृक्स्राववमनं बस्तिकर्म विरेचनम् ॥
विवर्जयेदाढ्यवाते तैश्च तस्य विरोधतः ॥ १ ॥
तस्मादत्र सदा कार्यं स्वेदलङ्घनरूक्षणम् ॥
आममेदःकफाधिक्यान्मारुतं परिरक्षता ॥ २ ॥
यत्स्मात्कफप्रशमनं न च मारुतकोपनम् ॥
तत्सर्वं सर्वदा कार्यमूरुस्तम्भस्य भेषजम् ॥ ३ ॥
भोज्याः पुराणश्यामाककोद्रवोद्दालशालयः ॥
जाङ्गलैरघृतैर्मांसैः शाकैश्चालवणैर्हितैः ॥ ४ ॥
रूक्षणाद्वातकोपश्चेन्निद्रानाशार्तिसूचकः ॥
स्नेहस्वेदक्रमस्तत्र कार्यो वातामयापहः ॥ ५ ॥
232
प्रतारयेत्प्रतिस्रोतो नदीं शीतजलां शिवाम् ॥
सरश्च विमलं शीतं स्थिरतोयं पुनः पुनः ॥ ६ ॥
यथा विशुष्केऽस्य कफे शान्तिमूरुग्रहो व्रजेत् ॥
शरीरबलमग्निं च कार्यैषा रक्षता क्रिया ॥ ७ ॥
शिलाजतुं गुग्गुलुं वा पिप्पलीमथ नागरम् ॥
ऊरुस्तम्भे पिबेन्मूत्रैर्दशमूलरसेन वा ॥ ८ ॥
भल्लातकामृताशुण्ठी दारुपथ्यापुनर्नवाः ॥
पञ्चमूलीद्वयोन्मिश्रा ऊरुस्तम्भनिबर्हणाः ॥ ९ ॥
पिप्पलीपिप्पलीमूलं भल्लातकफलानि च ॥
कल्कं मधुयुतं पीत्वा ऊरुस्तम्भाद्विमुच्यते ॥ १० ॥
त्रिफलाचव्यकटुकं ग्रन्थिकं मधुना लिहेत् ॥
ऊरुस्तम्भविनाशाय पुरं मूत्रेण वा पिबेत् ॥ ११ ॥
लिह्याद्वा त्रिफलाचूर्णं क्षौद्रेण कटुकायुतम् ॥
सुखाम्बुना पिबेद्वाऽपि चूर्णं षट्चरणं नरः ॥ १२ ॥
पिप्पलीवर्धमानं वा माक्षिकेण गुडेन वा ॥
ऊरुस्तम्भे प्रशंसन्ति गण्डीरारिष्टमेव च ॥ १३ ॥
233
पलाभ्यां पिप्पलीमूलनागरादष्टकट्वरः ॥
तैलप्रस्थः समो दध्ना गृध्रस्यूरुग्रहापहः ॥
सैन्धवाद्यं हितं तैलममृताद्यो हि गुग्गुलुः ॥ १४ ॥