231
स्नेहासृक्स्राववमनं बस्तिकर्म विरेचनम् ॥
विवर्जयेदाढ्यवाते तैश्च तस्य विरोधतः ॥ १ ॥
तस्मादत्र सदा कार्यं स्वेदलङ्घनरूक्षणम् ॥
आममेदःकफाधिक्यान्मारुतं परिरक्षता ॥ २ ॥
यत्स्मात्कफप्रशमनं न च मारुतकोपनम् ॥
तत्सर्वं सर्वदा कार्यमूरुस्तम्भस्य भेषजम् ॥ ३ ॥
भोज्याः पुराणश्यामाककोद्रवोद्दालशालयः ॥
जाङ्गलैरघृतैर्मांसैः शाकैश्चालवणैर्हितैः ॥ ४ ॥
रूक्षणाद्वातकोपश्चेन्निद्रानाशार्तिसूचकः ॥
स्नेहस्वेदक्रमस्तत्र कार्यो वातामयापहः ॥ ५ ॥