248
विश्वोरुबूकदशमूलयवाम्भसा च
द्विक्षारहिङ्गुलवणत्रयपुष्कराणाम् ॥
चूर्णं पिबेद्धृदयपार्श्वकटीग्रहाम-
पक्वाशयांसभृशरुग्ज्वरगुल्मशूली ॥ ४७ ॥
हिङ्गु सौवर्चलं पथ्या बिडसैन्धवतुम्बुरु ॥
पौष्करं च पिबेच्चूर्णं दशमूलयवाम्भसा ॥ ४८ ॥
पार्श्वहृत्कटिपृष्ठांसशूले तन्द्रापतानके ॥
शोथे श्लेष्मप्रसेके च गलरोगे च शस्यते ॥ ४९ ॥
रसोनं मद्यसंमिश्रं पिबेत्प्रातः प्रकाङ्क्षितः ॥
वातश्लेष्मभवं शूलं निहन्तुं वह्निदीपनम् ॥ ५० ॥
हिङ्गु त्रिकटुकं कुष्ठं यवक्षारं ससैन्धवम् ॥
मातुलुङ्गरसोपेतं प्लीहशूलापहं रजः ॥ ५१ ॥
तीक्ष्णायश्चूर्णसंयुक्तं त्रिफलाचूर्णमुत्तमम् ॥
प्रयोज्यं मधुसर्पिर्भ्यां सर्वशूलनिवारणम् ॥ ५२ ॥
मूत्रान्तःपाचितां शुष्कां लोहचूर्णसमन्विताम् ॥
सगुडामभयामद्यात्सर्वशूलप्रशान्तये ॥ ५३ ॥
वाते निरूहाः सविरेचनाश्च
क्षीरप्रयोगा मधुराश्च पित्ते ॥
तिक्ताः कषायाः कटुकास्तथैव
वाम्यश्च शूले कफसंनिविष्टे ॥ ५४ ॥