Adhikāra 27

लङ्घनं वमनं शस्तं विरेकश्चानुवासनम् ॥
निरूहो वाजिगन्धादिर्माधुतैलिकबस्तयः ॥ १ ॥
250
विडङ्गतण्डुलव्योषत्रिवृद्दन्ति सचित्रकम् ॥
सर्वाण्येतानि चाऽऽहृत्य सूक्ष्मचूर्णानि कारयेत् ॥ २ ॥
गुडेन मोदकान्कृत्वा भक्षयेत्प्रातरुत्थितः ॥
उष्णोदकानुपानं च दद्यादग्निविवर्धनम् ॥
जयेत्त्रिदोषजं शूलं परिणामसमुद्भवम् ॥ ३ ॥
नागरतिलगुडकल्कं पयसा संसाध्य यः पुमानद्यात् ॥
उग्रं परिणतिशूलं तस्यापैतीह सप्तरात्रेण ॥ ४ ॥
एरण्डवह्निशम्बूकवर्षाभूगोक्षुरं समम् ॥
अन्तर्दग्ध्वा पिबेदद्भिरुष्णाभिः शूलशान्तये ॥ ५ ॥
शम्बूकजं भस्म पीतं जलेनोष्णेन तत्क्षणात् ॥
पक्तिजं विनिहन्त्येतच्छूलं विष्णुरिवासुरान् ॥ ६ ॥
शम्बूकं त्र्यूषणं चैव पञ्चैव लवणानि च ॥
समांशां गुटिकां कृत्वा कलम्बकरसेन वा ॥ ७ ॥
प्रातर्भोजनकाले वा भक्षयेत्तु यथाबलम् ॥
शूलाद्विमुच्यते जन्तुः सहसा परिणामजात् ॥ ८ ॥
यः पिबति सप्तरात्रं सक्तूनेकान्कलाययूषेण ॥
स जयति परिणामरुजं चिरजामपि किमुत नूतनजाम् ॥ ९ ॥
251
लोहचूर्णं वरायुक्तं विलीढं मधुसर्पिषा ॥
पक्तिशूलं च शमयेत्तन्मलं वा प्रयोजितम् ॥ १० ॥
कृष्णाभयालोहचूर्णं लिह्यात्समधुशर्करम् ॥
परिणामभवं शूलं सद्यो हन्ति सुदारुणम् ॥ ११ ॥
पथ्यालोहरजः शुण्ठीचूर्णं माक्षिकसर्पिषा ॥
परिणामरुजं हन्ति वातपित्तकफात्मिकाम् ॥ १२ ॥
सामुद्रं सैन्धवं क्षारो रुचकं रोमकं विडम् ॥ १३ ॥
दन्ती लोहरजःकिट्टं त्रिवृत्सूरणकं समम् ॥
दधिगोमूत्रपयसा मन्दपावकपाचितम् ॥ १४ ॥
तद्यथाग्निबलं चूर्णं पिबेदुष्णेन वारिणा ॥
जीर्णे जीर्णे च भुञ्जीत माषादिघृतभोजनम् ॥ १५ ॥
नाभिशूलं हरेन्नूनं गुल्मप्लीहकृतं च यत् ॥
विद्रध्यष्ठीलिकं हन्ति कफवातोद्भवं तथा ॥ १६ ॥
शूलानामपि सर्वेषामौषधं नास्त्यतः परम् ॥
परिणामसमुत्थस्य विशेषेणान्तकृन्मतम् ॥ १७ ॥
252
सपिप्पलीगुडं सर्पिः पचेत्क्षीरे चतुर्गुणे ॥
विनिहन्त्यम्लपित्तं च शूलं च परिणामजम् ॥ १८ ॥
क्वाथेन कल्केन च पिप्पलीनां सिद्धं घृतं माक्षिकसंप्रयुक्तम् ॥
क्षीरानुपस्यैव निहन्त्यवश्यं शूलं प्रवृद्धं परिणामसंज्ञम् ॥ १९ ॥
कोलाग्रन्थिकशृङ्गबेरचपलाक्षारैः समं चूर्णितं
मण्डूरं सुरभीजलेऽष्टगुणिते पक्त्वाऽथ सान्द्रीकृतम् ॥
तं खादेदशनादिमध्यविरतौ प्रायेण दुग्धान्नभु-
ग्जेतुं वातकफामयान्परिणतं शूलं च शूलानि च ॥ २० ॥
कोलाग्रन्थिकसहितैर्विश्वौषधमागधीयवक्षारैः ॥
प्रस्थमयोमलरजसः पलांशिकैश्चूर्णितैर्मिश्रैः ॥ २१ ॥
अष्टगुणमूत्रयुक्तं क्रमपाकात्पिण्डतां नयेत्सर्वम् ॥
कोलप्रमाणगुटिकास्तिस्रो भोज्यादिमध्यविरतौ च ॥ २२ ॥
रससर्पिर्यूषपयोमांसैरश्नन्नरो निवारयति ॥
अन्नविवर्तनशूलं गुल्मप्लीहाग्निसादांश्च ॥ २३ ॥
मण्डूरस्य पलान्यष्टौ गोमूत्रेऽर्धाढके पचेत् ॥
क्षीरप्रस्थं च तत्सिद्धं पक्तिशूलहरं नृणाम् ॥ २४ ॥
253
मण्डूरस्य पलान्यष्टौ गोमूत्रेऽष्टगुणे पचेत् ॥
चपलानागरक्षारपिप्पलीमूलपिप्पलीः ॥ २५ ॥
संचूर्णानि क्षिपेत्तस्मिन्पलांशाः सान्द्रतां गते ॥
गुटिकाः कल्पयेत्तेन पक्तिशूलनिवारणीः ॥ २६ ॥
संशोध्य चूर्णितं कृत्वा मण्डूरस्य पलाष्टकम् ॥
शतावरीरसस्याष्टौ दध्नस्तु पयसस्तथा ॥ २७ ॥
पलान्यादाय चत्वारि तथा गव्यस्य सर्पिषः ॥
विपचेत्सर्वमेकत्र यावत्पिण्डत्वमागतम् ॥ २८ ॥
सिद्धं तद्भक्षयेन्मध्ये भोजनस्याग्रतोऽपि वा ॥
वातात्मकं पित्तभवं शूलं च परिणामजम् ॥ २९ ॥
निहन्त्येव हि योगोऽयं मण्डूरस्य न संशयः ॥
रसो गन्धः शुभः पाके वर्तिः स्याद्गाढमर्दनात् ॥ ३० ॥
विडङ्गं चित्रकं चव्यं त्रिफला त्र्यूषणानि च ॥
नवभागानि चैतानि लोहकिट्टसमानि च ॥ ३१ ॥
गोमूत्रं द्विगुणं दत्त्वा मूत्रार्धिकगुडान्वितम् ॥
शनैर्मृद्वग्निना पक्त्वा सुसिद्धं पिण्डतां गतम् ॥ ३२ ॥
स्निग्धभाण्डे विनिक्षिप्य भक्षयेत्कोलमात्रया ॥
प्राङ्मध्यान्तक्रमेणैव भोजनस्य प्रयोजितः ॥ ३३ ॥
योगोऽयं शमयत्याशु पक्तिशूलं सुदारुणम् ॥
कामलां पाण्डुरोगं च शोथं मन्दाग्नितामपि ॥ ३४ ॥
अर्शांसि ग्रहणीदोषं कृमिगुल्मोदराणि च ॥
नाशयेदम्लपित्तं च स्थौल्यं चैवापकर्षति ॥ ३५ ॥
वर्जयेच्छुष्कशाकानि विदाह्यम्लकटूनि च ॥
पक्तिशूलान्तको ह्येष गुडो मण्डूरसंज्ञितः ॥
शूलार्तानां कृपाहेतोस्तारया परिकीर्तितः ॥ ३६ ॥
254
अक्षामलकशिवानां स्वरसैः पक्वं सुलोहजं रेणुम् ॥
सगुडं यद्युपयुङ्क्ते मुञ्चति शुली त्रिदोषजं शूलम् ॥ ३७ ॥
धात्रीचूर्णस्याष्टौ पलानि चत्वारि लोहचूर्णस्य ॥ ३८ ॥
यष्टीमधुकरजश्च द्विपलं दद्यात्पटे घृष्टम् ॥
अमृताक्वाथेनैतच्चूर्णं भाव्यं तु सप्ताहम् ॥ ३९ ॥
चण्डातपे विशुष्कं भूयः पिष्ट्वा नवे घटे स्थाप्यम् ॥
घृतमधुना संयुक्तं भक्तादौ मध्यतोऽन्ते च ॥ ४० ॥
त्रीनपि वारान्खादेत्पथ्यं दोषानुबन्धेन ॥
भक्तस्याऽऽदौ नाशयति दोषान्पित्तानिलोद्भूतान् ॥ ४१ ॥
मध्येन्नं विष्टम्भं जयति नृणां विदह्यते नान्नम् ॥
पानान्नकृतान्दोषान्भक्तान्ते शीलितं जयति ॥ ४२ ॥
एवं जीर्यति चान्ने शूलं नॄणां सुकष्टमपि ॥
हरति च सहसा युक्तो योगश्चायं जरत्पित्तम् ॥ ४३ ॥
चक्षुष्यं पलितघ्नं कफपित्तभवाञ्जयेद्रोगान् ॥
प्रसादयति च रक्तं पाण्डुत्वं कामलां जयति ॥ ४४ ॥
स्विन्नपीडितकूष्माण्डात्तुलार्धं भृष्टमाज्यतः ॥
प्रस्थार्धे खण्डतुल्यं तु पचेदामलकीरसात् ॥ ४५ ॥
प्रस्थे सुस्विन्नकूष्माण्डरसप्रस्थे च घट्टयन् ॥
दर्व्या पाकं गते तस्मिंश्चूर्णीकृत्य विनिक्षिपेत् ॥ ४६ ॥
द्वे द्वे पले कणाजाजीशुण्ठीनां मरिचस्य च ॥
पलं तालीसधान्याकं चतुर्जातकमुस्तकम् ॥ ४७ ॥
255
कर्षप्रमाणं प्रत्येकं प्रस्थार्धं माक्षिकस्य च ॥
पक्तिशूलं निहन्त्येतद्दोषत्रयकृतं च यत् ॥ ४८ ॥
छर्द्यम्लपित्तमूर्छाश्च श्वासकासावरोचकम् ॥
हृच्छूलं रक्तपित्तं च पृष्ठशूलं च नाशयेत् ॥
रसायनमिदं श्रेष्ठं खण्डामलकसंज्ञितम् ॥ ४९ ॥
कलायचूर्णभागौ द्वौ लोहचूर्णस्य चापरः ॥
कारवेल्लपलाशानां रसेनैव विमर्दितम् ॥ ५० ॥
कर्षमात्रां ततश्चैकां भक्षयेद्गुटिकां नरः ॥
मण्डानुपाना सा हन्ति जरत्पित्तं सुदारुणम् ॥ ५१ ॥
लिह्याद्वा त्रैफलं चूर्णमयश्चूर्णसमायुतम् ॥
यष्टीचूर्णेन वा युक्तं लिह्यात्क्षौद्रेण तद्गदे ॥ ५२ ॥
पित्तान्तं वमनं कृत्वा कफान्तं च विरेचनम् ॥ ५३ ॥
अन्नद्रवे तु तत्कार्यं जरत्पित्ते यदीरितम् ॥
आमपक्वाशये शुद्धे गच्छेदन्नद्रवः शमम् ॥ ५४ ॥
माषेण्डरी सतुषिका स्विन्ना सर्पिर्युता हिता ॥
गोधूममण्डकं तत्र सर्पिषा गुडसंयुतम् ॥
ससितं शीतदुग्धेन मृदितं वा हितं मतम् ॥ ५५ ॥
अन्नद्रवे दुश्चिकित्स्यो दुर्विज्ञेयो महागदः ॥
तस्मात्तस्य प्रशमने परं यत्नं समाचरेत् ॥ ५६ ॥
अन्नद्रवे जरत्पित्ते वह्निर्मन्दो भवेद्यतः ॥
तस्मादत्रान्नपानानि मात्राहीनानि कल्पयेत् ॥ ५७ ॥
256
अन्नद्रवे तु यत्प्रोक्तं जरत्पित्तेऽपि तद्धितम् ॥
इति संक्षेपतः प्रोक्तमन्नद्रवचिकित्सितम् ॥ ५८ ॥