2
नानामतप्रथितदृष्टफलप्रयोगैः प्रस्ताववाक्यसहितैरिह सिद्धयोगः ॥
वृन्देन मन्दमतिनाऽऽत्महितार्थिनाऽयं संलिख्यते गदविनिश्चयजक्रमेण ॥ २ ॥
रोगमादौ परीक्षेत ततोऽनन्तरमौषधम् ॥
ततः कर्म भिषक्पश्चाज्ज्ञानपूर्वं समाचरेत् ॥ ३ ॥
यस्तु रोगमविज्ञाय कर्माण्यारभते भिषक् ॥
अप्यौषधविधानज्ञस्तस्य सिद्धिर्यदृच्छया ॥ ४ ॥
यस्तु रोगविशेषज्ञः सर्वभैषज्यकोविदः ॥
देशकालविशेषज्ञस्तस्य सिद्धिरसंशयम् ॥ ५ ॥
आदावन्ते रुजां ज्ञाने प्रयतेत चिकित्सकः ॥
साध्यासाध्यविभागज्ञस्ततः कुर्याच्चिकित्सितम् ॥ ६ ॥