281
शतावरीकाशकुशश्वदंष्ट्रा-
विदारिकेक्ष्वामलकेषु सिद्धम् ॥
सर्पिः पयो वा सितया विमिश्रं
कृच्छ्रेषु पित्तप्रभवेषु योज्यम् ॥ २३ ॥
त्रिकण्टकैरण्डकुशाद्यभीरुकर्कारुकेक्षुस्वरसेन सिद्धम् ॥
सर्पिर्गुडार्धांशयुतं प्रपेयं कृच्छ्राश्मरीमूत्रविघातदोषे ॥ २४ ॥

Adhikāra 33

स्नेहस्वेदोपपन्नस्य हितं स्नेहविरेचनम् ॥
ततः संशुद्धदेहस्य हिताश्चोत्तरबस्तयः ॥ १ ॥