Adhikāra 35

श्यामाकाः कोद्रवोद्दालगोधूमचणकाढकी ॥
कुलत्थाश्च हिता भोज्ये पुराणा मेहिनां सदा ॥ १ ॥
मेहिनां तिक्तशाकानि जाङ्गला हरिणाण्डजाः ॥
यवान्नविकृतिर्मुद्गाः शस्यन्ते शालिषष्टिकाः ॥ २ ॥
पारिजातजयानिम्बवह्निगायत्रि(त्री)णां पृथक् ॥
पाठायाः सागुरोः पीताद्वयस्य शारदस्य च ॥ ३ ॥
292
जलेक्षुमद्यसिकताशनैर्लवणपिष्टकाः ॥
सान्द्रमेहान्क्रमाद्घ्नन्ति अष्टौ क्वाथाः समाक्षिकाः ॥ ४ ॥
दूर्वाकसेरुपूतीककुम्भीकप्लवशैवलम् ॥
जलेन क्वथितं पीतं शुक्रमेहहरं परम् ॥ ५ ॥
त्रिफलारग्वधद्राक्षाकषायो मधुसंयुतः ॥
पीतो निहन्ति फेनाख्यं प्रमेहं नियतं नृणाम् ॥ ६ ॥
रोध्राभयाकट्फलमुस्तकानां विडङ्गपाठार्जुनधन्वनानाम् ॥
कदम्बशालार्जुनदीप्यकानां विडङ्गदार्वीधवशल्यकानाम् ॥
चत्वार एते मधुना कषायाः कफप्रमेहेषु निषेवणीयाः ॥ ७ ॥
रोध्रार्जुनोशीरकुचन्दनानामरिष्टसेव्यामलकाभयानाम् ॥ ८ ॥
धात्र्यर्जुनारिष्टकवत्सकानां नीलोत्पलैलातिनिशार्जुनानाम् ॥
चत्वार एते विहिताः कषायाः पित्तप्रमेहे मधुसंप्रयुक्ताः ॥ ९ ॥
अश्वत्थचतुरङ्गुलन्यग्रोधादिफलत्रयम् ॥
सरक्तसारमञ्जिष्ठा क्वाथाः पञ्च समाक्षिकाः ॥ १० ॥
नीलहारिद्रशुक्ताख्यक्षारगण्डीरिकाह्वयान् ॥
मेहान्हन्युः क्रमादेते सक्षौद्रो रक्तमेहजित् ॥
क्वाथः खर्जूरकाश्मर्यतिन्दुकास्थ्यमृताकृतः ॥ ११ ॥
293
छिन्नावह्निकषायेण पाठाकुटजरामठम् ॥
तिक्तां कुष्ठं च संचूर्ण्य सर्पिर्मेहे पिबेरन्नः ॥ १२ ॥
कदरखदिरपूगक्वाथं क्षौद्राह्वये पिबेत् ॥
अग्निमन्थकषायं तु वसामेहे प्रयोजयेत् ॥ १३ ॥
पाठाशिरीषदुस्पर्शमूर्वाकिंशुकतिन्दुकम् ॥
कपित्थानां भिषक्क्वाथं हस्तिमेहे प्रयोजयेत् ॥ १४ ॥
कम्पिल्लसप्तच्छदशालजानि वैभीतरौहीतककौटजानि ॥
कपित्थपुष्पाणि च चूर्णितानि क्षौद्रेण लिह्यात्कफपित्तमेही ॥ १५ ॥
स्निग्धं वान्तं विरिक्तं च निरूढं पाययेद्रसम् ॥
धात्र्याः सर्वप्रमेहेषु निशाक्षौद्रसमन्वितम् ॥ १६ ॥
कषायमथ वा दारुत्रिफलामुस्तकैः शृतम् ॥
त्रिफलादारुदार्व्यब्दक्वाथः क्षौद्रेण मेहहा ॥ १७ ॥
294
कुटजासनदार्व्यब्दफलत्रयभवोऽथ वा ॥
गुडूच्याः स्वरसः पेयो मधुना सर्वमेहनुत् ॥ १८ ॥
शालमुष्कककम्पिल्लकल्कमक्षसमं पिबेत् ॥
धात्रीरसेन सक्षौद्रं सर्वमेहहरं परम् ॥ १९ ॥
फलत्रिकं दारुनिशां विशालां
मुस्तं च निष्क्वाथ्य निशांशकल्कम् ॥
पिबेत्कषायं मधुसंप्रयुक्तं
सर्वप्रमेहेषु समुत्थितेषु ॥ २० ॥
मधुना त्रिफलाचूर्णमथ वाऽश्मजतूद्भवम् ॥
लोहजं वाऽभयोत्थं वा लिह्यान्मेहनिवृत्तये ॥ २१ ॥
न्यग्रोधोदुम्बराश्वत्थश्योनाकारग्वधासनम् ॥
आम्रं कपित्थं जम्बूं च प्रियालं ककुभं धवम् ॥ २२ ॥
मधूकं मधुकं रोध्रं वरणं पारिभद्रकम् ॥
पटोलं मेषशृङ्गीं च दन्तीं चित्रकमाढकीम् ॥ २३ ॥
295
करञ्जं त्रिफलाशक्रभल्लातकफलानि च ॥
एतानि समभागानि श्लक्ष्णचूर्णानि कारयेत् ॥ २४ ॥
न्यग्रोधाद्यमिदं चूर्णं मधुना सह लेहयेत् ॥
फलत्रयरसं चानुपिबेन्मूत्रं विशुध्यति ॥ २५ ॥
एतेन विंशतिर्मेहा मूत्रकृच्छ्राणि यानि च ॥
प्रशमं यान्ति योगेन पिटिका न प्रजायते ॥ २६ ॥
त्रिकण्टकाश्मन्तकसोमवल्कैर्भल्लातकैः सातिविषैः सरोध्रैः ॥
वचापटोलार्जुननिम्बमुस्तैर्हरिद्रया पद्मकदीप्यकैश्च ॥ २७ ॥
मञ्जिष्ठया चागुरुचन्दनैश्च सर्वैः समस्तैः कफवातजेषु ॥
मेहेषु तैलं विपचेद्घृतं तु पित्तेषु मिश्रं त्रिषु लक्षणेषु ॥ २८ ॥
त्रिकटुत्रिफलाचूर्णतुल्ययुक्तं तु गुग्गुलुम् ॥ २९ ॥
गोक्षुरक्वाथसंयुक्तं गुटिकां कारयेद्भिषक् ॥
दोषकालबलापेक्षी भक्षयेच्चाऽऽनुलोमिकीम् ॥ ३० ॥
न चात्र परिहारोऽस्ति कर्म कुर्याद्यथेप्सितम् ॥
प्रमेहान्वातरोगांश्च मूत्राघातोदरं जयेत् ॥ ३१ ॥
कफमेहहरक्वाथसिद्धं सर्पिः कफे हितम् ॥
296
पित्तमेहघ्ननिर्यूहसिद्धं पित्ते हितं घृतम् ॥ ३२ ॥
दशमूलं करञ्जौ द्वौ देवदारु हरीतकी ॥
वर्षाभूर्वरुणो दन्ती चित्रकं सपुनर्नवम् ॥ ३३ ॥
सुधानीपकदम्बाश्च बिल्वभल्लातकानि च ॥
शठी पुष्करमूलं च पिप्पलीमूलमेव च ॥ ३४ ॥
पृथग्दशपलानेतान्भागांस्तोयार्मणे पचेत् ॥
यवकोलकुलत्थानां प्रस्थं प्रस्थं च दापयेत् ॥ ३५ ॥
तेन पादावशेषेण घृतप्रस्थं विपाचयेत् ॥
निचुलं त्रिफला भार्गी रोहिषं गजपिप्पली ॥ ३६ ॥
शृङ्गवेरं विडङ्गानि वचा कम्पिल्लकं तथा ॥
गर्भेणानेन तत्सिद्धं पाययेच्च यथाबलम् ॥ ३७ ॥
एतद्ध(द्धा)न्वन्तरं नाम विख्यातं सर्पिरुत्तमम् ॥
कुष्ठगुल्मप्रमेहांश्च श्वयथुं वातशोणितम् ॥ ३८ ॥
प्लीहोदराणि चार्शांसि विद्रधीन्पिटकास्तथा ॥
अपस्मारं तथोन्मादं सर्पिरेतन्नियच्छति ॥
पाठान्तरे शृतं तोयं क्वाथ्यादष्टगुणं त्विह ॥ ३९ ॥
297
शालसारादितोयेन भावितं च शिलाजतु ॥
पिबेत्तेनैव संशुद्धकायः पिष्टं यथाबलम् ॥ ४० ॥
जाङ्गलानां रसैः सार्धं तस्मिञ्जीर्णे च भोजनम् ॥
कुर्यादेवं तुलां यावदुपयुञ्जीत मानवः ॥ ४१ ॥
मधुमेहं विहायासौ शर्करामश्मरीं तथा ॥
चपुर्वर्णबलोपेतः शतं जीवत्यनामयः ॥ ४२ ॥
298

No verses of the Siddhayoga on this page. The commentary Kusumāvali was not digitized.

299

No verses of the Siddhayoga on this page. The commentary Kusumāvali was not digitized.

300
माक्षिकं धातुमप्येवं युञ्ज्यादस्याप्ययं गुणः ॥ ४३ ॥
शराविकाद्याः पिटकाः साधयेच्छोफवद्भिषक् ॥
पक्वाश्चिकित्सेद्व्रणवत्तासां पानेषु शस्यते ॥
क्वाथो वनस्पतेर्वास्तं मूत्रं तीक्ष्णं च शोधनम् ॥ ४४ ॥
301
एलादिकेन कुर्वीत तैलं च व्रणरोपणम् ॥ ४५ ॥
आरग्वधादिना कुर्यात्क्वाथमुद्वर्तनानि च ॥
शालसारादिना सेकं भोज्यादि च कणादिना ॥ ४६ ॥
सौवीरकसुरासुक्तं तैलं क्षीरं गुडं घृतम् ॥
अम्लेक्षुरसपिष्टान्नानूपमांसानि वर्जयेत् ॥ ४७ ॥
प्रमेहिणो यदा मूत्रमनाविलमपिच्छिलम् ॥
विशदं तिक्तकटुकं तदाऽऽरोग्यं प्रचक्षते ॥ ४८ ॥