303
सचव्यजीरकव्योषहिङ्गुसौवर्चलानलाः ॥
मधुना सक्तवः पीता मेदोघ्ना वह्निदीपनाः ॥ ७ ॥
व्योषं विडङ्गं शिग्रूणि त्रिफलां कटुरोहिणीम् ॥
बृहत्यौ द्वे हरिद्रे च पाठामतिविषां स्थिराम् ॥ ८ ॥
हिङ्गुकेम्बुकमूलानि यवानीधान्यचित्रकम् ॥
सौवर्चलमजाजीं च हपुषां चेति चूर्णयेत् ॥ ९ ॥
चूर्णतैलघृतक्षौद्रभागाः स्युर्मानतः समाः ॥
सक्तूनां षोडशगुणो भागः संतर्पणं पिबेत् ॥ १० ॥
प्रयोगादस्य शाम्यन्ति रोगाः संतर्पणोत्थिताः ॥
प्रमेहा मूढवाताश्च कुष्ठान्यर्शांसि कामलाः ॥ ११ ॥
प्लीहपाण्ड्वामयः शोथा मूत्रकृच्छ्रमरोचकः ॥
हृद्रोगो राजयक्ष्मा च कासः श्वासो गलग्रहः ॥ १२ ॥
कृमयो ग्रहणीदोषाः श्वैत्यं स्थौल्यमतीव च ॥
नराणां दीप्यते वह्निः स्मृतिर्बुद्धिश्च वर्धते ॥ १३ ॥
त्रिफलातिविषामूर्वात्रिवृच्चित्रकवासकैः ॥
निम्बारग्वधषड्ग्रन्थासप्तपर्णनिशाद्वयैः ॥ १४ ॥
गुडूचीन्द्रसुराकृष्णाकुष्ठसर्षपनागरैः ॥
तैलमेभिः समैः पक्वं सुरसादिरसाप्लुतम् ॥ १५ ॥
पानाभ्यञ्जनगण्डूषनस्यबस्तिषु योजितम् ॥
स्थूलतालस्यकण्ड्वादीञ्जयेत्कफकृतान्गदान् ॥ १६ ॥