66
कषायः शीतलः पेयो ज्वरातीसारशान्तये ॥
हृल्लासारोचकच्छर्दिःपिपासादाहनाशनः ॥ १० ॥
कलिङ्गातिविषाशुण्ठीकिराताम्बुयवासकम् ॥
ज्वरातीसारसंतापं नाशयेदविकल्पतः ॥ ११ ॥
वत्सकस्य फलं दारु रोहिणी गजपिप्पली ॥
श्वदंष्ट्रा पिप्पली धान्यं बिल्वं पाठा यवानिका ॥ १२ ॥
द्वावप्येतौ सिद्धयोगौ श्लोकार्धेनाभिभाषितौ ॥
ज्वरातिसारशमनौ विशेषाद्दाहनाशनौ ॥ १३ ॥
पञ्चमूलीबलाविल्बगुडूचीमुस्तनागरैः ॥
पाठाभूनिम्बह्रीवेरकुटजत्वक्पलैः शृतम् ॥ १४ ॥
हन्ति सर्वानतीसाराञ्ज्वरदोषं वमिं तथा ॥
सशूलोपद्रवं श्वासं कासं हन्यात्सुदुस्तरम् ॥ १५ ॥
पञ्चमूलीति सामान्याद्योज्या पित्ते कनीयसी ॥
महती पञ्चमूली तु वातश्लेष्माधिके हिता ॥ १६ ॥
उत्पलं दाडिमत्वक्च पद्मकेसरमेव च ॥
पिबेत्तण्डुलतोयेन ज्वरातीसारनाशनम् ॥ १७ ॥
उशीरं वालकं मुस्तं धान्यकं बिल्वमेव च ॥
समङ्गा धातकी रोध्रं विश्वं पाचनदीपनम् ॥ १८ ॥